________________
तोरणानि ]
त्रयोविंशोऽध्यायः ।
पत्राख्यं तोरणं त्वादौ द्वितीयं मकराभिधम् । तृतीयं चित्रसंज्ञं तु त्रिविधं तोरणाकृति ॥ १० ॥ अर्धचन्द्रसमाकारं पत्रजातिविराजितम् । पत्रतोरणमाख्यातं तच्छूद्राणां गृहोचितम् ॥ ११ ॥ पञ्चवक्रसमायुक्तं पार्श्वयोर्मकरास्यकम् । मध्ये पूरिमसंयुक्तं नानाचित्रसमन्वितम् ॥ १२ ॥ नानालङ्कारसंयुक्तं यत्तन्मकरतोरणम् । देवजिनृपाणां तु शस्तं मकरतोरणम् || १३ ॥ तदेव पार्श्वयोर्मध्यपूरिमस्य द्वयोरपि । नक्रतुण्डसमायुक्तं भूतविद्याधरान्वितम् ॥ १४ ॥ सिंहेभव्यालहंसाद्यैः बालस्रङ्मुक्तदामकैः । अन्यैश्च विविधैश्वित्रैः चित्रबन्धैश्च भूषितम् ॥ १५ ॥ चित्रतोरणमेवं तु विशां वेश्मसु पूजितम् । प्रस्तरोत्तरयोर्मध्ये योज्यान्येतानि सर्वशः ॥ १६ ॥ गुहासु तोरणानां तु यथाई प्रतिमां तथा । न्यस्येन्नारी नरादिर्वा यथाशोभविचित्रितम् ॥ १७ ॥ शिलादार्विष्टका मृत्स्ना द्रव्याणि स्युश्च तोरणे । कुड्यतोरणमेवं स्याद्यथाशोभविचित्रितम् ॥ १८ ॥ द्वारे द्वारे च कर्तव्यं गृहेषु द्वारतोरणम् । हारतुल्योन्नतं व्यासं तोरणान्तरं ततः ॥ १९ ॥ उत्तरं वाजनं त्वब्जं क्षेपणं चाष्टमङ्गलम् | वलका पचवाव्या प्रागुक्तविधिना भवेत् ॥ २० ॥
१३९