________________
अथ अयोविंशोऽध्यायः ।
अथ तोरणानि । स्तम्भे दिनन्दनागांशिनि झषमनलांशेन शेषेण पादौ व्यासं. स्तम्भाधतोऽब्ध्याशुगरसमितदण्डेन वा तत्र कुर्यात् । पत्राविडार्धचन्द्रात्म(क)मथ मकरास्यादिमत् पञ्चभुमं कर्तव्यं तोरणं तद् वि(धि?विध)खगलसन्नक्रतुण्डोज्ज्वलं च ॥
प्रासादमध्ये कर्तव्यं मण्डपे भित्तिबाह्यके । हारासु वलभीमध्ये प्रमाणं भवनेऽपि वा ॥२॥ तोरणं तत्सभादीनां द्वारे वा तलिपेऽथवा । पादोच्चे पञ्चषट्सप्तभागे वा तोरणाग्रकम् ॥ ३ ॥ शेषं पादोदयं ख्यातमेवं च त्रिविधं भवेत् । तोरणाप्रविशालं तु कुड्यरतम्भोदयार्धकम् ॥ ४ ॥ कुड्यस्तम्भद्वयो( ? )रन्तासं वा तोरणाग्रकम् । स्वाद्भिवेत्रावसानं वा तस्माद् दण्डाधिकं तु वा ॥ ५॥ अर्धपादोक्तविधिना कारयेत् तोरणाद्धिकौ । उत्तरं कारयेत्पादस्योर्ध्वं चैव सवाजनम् ॥ ६ ॥ अब्ज क्षेपणकं पश्चात् तथैव क्षुद्रवाजनम् । तच्छिष्टं झषमानं तु तोरणावयवं स्मृतम् ॥ ७ ॥ तोरणाद्मिविशालं वा त्रिपादं वोत्तरोदयम् । तदर्ध वाजनोत्तुङ्गं तस्यार्धं दलमानकम् ॥ ८ ॥ दुलार्धं क्षेपणं ख्यातं तस्या) क्षुद्रवाजनम् । उत्सन्ध्यन्तनतायौ तु कुर्यान्मकरपृष्ठको ॥ ९ ॥