________________
३.
द्वाराण]
द्वाविंशोऽध्यायः । अर्धगोमूत्रकं चाथ वल्लीमण्डलमित्यपि । त्रिखण्डाकाररचितं यत्सोपानं त्रिखण्डकम् ॥ १०७ ॥ मूलादग्रं तु संक्षिप्तं क्रमाद्यच्छङ्खमण्डलम् । तविखण्डं च सोपानमर्धगोमूत्रसंज्ञकम् ॥ १०८ ॥ वृक्षारोहिलताकारं वल्लीमण्डलसंज्ञकम् । शयितं व्यासपादार्धत्रिपादोच्चानि वै पृथक् ।। १०९ ॥ समखण्डानि कुर्वीत सोपानानि यथाक्रमम् । . द्विदण्डं वा घर्धदण्डं भवेत्तद्बहलं ततः ॥ ११ ॥ त्रिपादं वाथ चार्ध वा हस्तनी विधीयते । स्थितस्य शयितस्यापि प्रवेशः स्याद्यथाबलम् ॥ १११ ॥ अश्व्यग्निवेदबाणस्वरदण्डान्तविस्तृतिः। सोपानानां भवेद् द्वित्रिचतुर्दण्डाश्च पादके ॥ ११२ ॥ अर्धचन्द्रसमाकारं तत्संस्थानं प्रकल्पयेत् । तञ्च हस्तं धनं वा स्यात् त्रिपादं वास्य चोपरि ॥ ११३ ॥ स्थित्वा तले तले शस्तं प्रादक्षिण्याधिरोहणम् । तदप्ययुग्ममेव स्यात्प्रासादे मण्डपेऽपि वा ॥११४ ॥ शालादिषु च रङ्गेषु सोपानं प्रमुखं स्मृतम् । पार्श्वयोर्मुखसोपानादन्यत्र परिकल्पयेत् ।। ११५ ॥
इति शिल्परने द्वारलक्षणकथनं नाम
द्वाविंशोऽध्यायः।