________________
११६ शिल्परत्ने
[पूर्वभागः तथा कवाटे विन्यस्य संविध्य दृढतां नयेत् । प्रधानहारमेकं वा द्वयं वान्यं तु जालकम् ॥ ९९ ॥ धनहारं तु वा कुर्यात् प्रासादानां विशेषतः । अग्रयहारप्रततिमहिभिः संविभज्याशुगांशैः
क्लप्तं व्यासं रचयतु धनद्वारमन्यत् त्रिदिक्स्थम् । द्वितव्यासायतमधिदलद्विघ्नतत्या ततं वा
सूद्यद्योगप्रकटितकवाटादिकस्वागदीप्तम् ॥ १० ॥ प्रासादमण्डपादीनां चतुर्दिक्षु विदिक्षु वा ।। १०१ ॥ तयोर्मध्येऽन्तराले वा व्योमाभित्तिस्तु यत्र वै । तत्रैव कल्प्यते सम्यक् कम्पहारं विचक्षणैः ॥ १०२॥ भुवङ्गं च पतङ्गं च योगं प्राग्वद् घनं ततः। कृत्वा दृढतरं बड्डा योजयेदन्तराज्रयः ॥ १०३ ॥ यथा नरैर्गजैर्वापि घाटनोढाटनक्षमम् ।
अथ सोपानम् । अग्रहारभुवङ्गमस्थलसमारब्धान्यधोधः क्रमात्
सोपानानि समानि सारशिलया चिन्वीत यावत्तलम् । अध्यर्धद्विगुणात्तदण्डविपुला निहारशाखाद्वयी पार्थोद्यन्मकरास्यनिःसृतलतारुडोभयानान्निचम् (?)॥ अग्रसोपानकरणं गुह्यागुह्यमिति द्विधा ॥१०५ ॥ वेदाश्रं दीर्घवेदानं वृत्तं चेति त्रियोनिकम् । चतुर्विध प्रकारैः स्यात् त्रिखण्डं शलमण्डलम् ॥ १०६॥ १. 'मः', २, 'न' ख. पाठः,