________________
द्वाराणि
द्वाविंशोऽध्यायः । रङ्गपादप्रमाणेन वर्तुलं त्वर्धनिम्नकम् । द्वारोत्सेधशरांशैकमरमायाममीरितम् ॥ ६९ ॥ युगवत्येकभागं वा षट्पञ्चैकांशविस्तृतम्। . व्यासपादोनमधं वा समं वा बहलं विदुः ॥ ७ ॥ अधोभारसमाकारा कीर्तिता शिल्पवित्तमैः । तदायामेऽब्धिसंभक्ते त्यजेन्नैकैकमग्रयोः ॥ ७१ ॥ मध्ये निधाय द्वितयं तत्सन्धावर्गलस्य च । कुर्याच्च कबली तत्र ह्यर्गलस्य प्रमाणतः ॥ ७२ ॥ कैवा(टव्या(स)सदृशमर्गलस्यायतं विदुः । पादोनं वा तदष्टांशादेकतत्तारमुच्यते(?) ॥ ७३ ॥ तारार्ध बहलं कुर्यात्पृष्ठं विस्तारतुल्यकम् । अग्रे रमाया विस्तारतुल्यं नीत्वात्र कारयेत् ॥ ७४ ॥ पृष्ठाध वा त्रिपादं वा खण्डं पृष्ठस्य तस्य च । अर्गलस्य च विस्तारसममुन्नतमुच्यते ॥ ७५ ॥ अर्धवृत्तं तु वा पृष्ठमष्टानं चारु कारयेत् । ऊर्ध्वार्गलं पुत्रिकायामन्यस्यामधरार्गलम् ॥ ७६ ॥ ऊर्वाग्रमरमां चापि विन्यसेत्तद्वहिः पुनः। द्वारसूत्रादर्गलार्धमानयित्वा च दक्षिणे ॥ ७ ॥ विन्यसेदरमा तत्र वन्यस्यान्यदिशि स्मृतम् । द्वारायामस्य मध्ये तत्कुर्याच्छास्त्रविशारदः ॥ ७८ ॥
१. 'कवाव्यौस', २. 'द्ध'. ख. पाठः. १. 'नं नीत्वा' क. पाठः.