________________
१३२
शिल्परत्ने
[पूर्वभागः
तथा विन्यस्य तां कीलैः पङ्कजाभागकल्पितैः । सरोजमुकुलायैर्वा कांस्यैर्वाय सकल्पितैः ॥ ५८ ॥ पट्टिकापद्ममध्येषु विद्धैः कुर्याच्च निश्चलाम् । कवाटयोस्तारसमं भारायाममुदीरितम् ॥ ५९ ॥ भारतारं प्रकर्तव्यं पतङ्गविततेः समम् । सपाद बाथ सार्धं वा तुङ्गतुल्यं धनं तु वा ॥ ६० ॥ व्यासादर्ध त्रिपादं वा पुच्छारसमायतौ । भारतारेऽब्धिसंभक्ते त्रीणि सूत्राणि पातयेत् ॥ ६१ ॥ तिर्यक्सूत्रद्वयं कार्य द्वारव्यासाग्रमध्यतः । अन्त्यसूत्रयुतिर्यत्र तिर्यक् सूत्रत्रयस्य तु ॥ ६२ ॥ तत्स्थ पृष्ठपदव्यासतुल्यं कर्कटकेन तु । भ्रामयित्वा करोत्यत्र वृत्तं खण्डीत्रयं पुनः ॥ ६३ ॥ खण्ड्यन्तराग्रमूलेषु तृतीयात् सूत्रयोर्बहिः । त्यक्त्वा निम्नं प्रकर्तव्यं निम्नखण्डियुतौ तथा ॥ ६४ ॥ शिल्पिभिश्चित्रसंयुक्तं चित्रकारैः करोतु वा । कार्ये च सुषिरे वृत्ते ह्याद्यसूत्रबहिः पदे ॥ ६५ ॥ मूलागततत्तिर्यक्सूत्रयोर्बाह्यदेशतः (?) । ऊर्ध्वस्थरङ्गपादस्य प्रमाणेन विचक्षणः ॥ ६६ ॥ युज्यतां द्वारपादाभ्यां अन्तराद्यं पदं यथा । शुलकीलादिवेधैश्च प्रतेरूर्ध्वे ऽर्धपाणिना ॥ ६७ ॥ अधोभारं त्वेवमेव मध्यखण्डिविवर्जितम् । पादमाद्यं परित्याज्यं द्वितीयस्थावटद्वयम् ॥ ६८ ॥