________________
द्वाराणि]
एकविंशोऽध्यायः। व्यासमेकांशतः कार्य मात्रैर्वा त्र्यब्धिबाणकैः। तत्सूत्रपट्टिकायास्तु घनं तारसमं भवेत् ।। ४७ ॥ अर्ध वा पादहीनं वा त्रिभागैकमथापि वा । कवाटधनयुग्मं वा हारोच्चसममायतम् ॥ ४८ ॥ अश्व्यादिवेश्मकृत्यन्ताः पतयस्तत्र कल्पयेत् । अग्न्याद्यत्यष्टिसंख्यान्तं पङ्कजान्यग्रसन्धिषु ॥ ४९ ॥ अग्न्याद्याः पतयो वाथ धृत्यन्ताश्चतुरादिकाः । स्तना वा स्युः प्रकर्तव्या ओजयुग्मक्रमेण तु ।। ५० ॥ ओजयुग्मस्तना पट्टी निर्विशेषामरालये। वा नरालये युग्मपङ्कजा सूत्रपट्टिका ॥ ५१ ॥ तारार्धमुच्छ्यं तेषां त्रिभागैकं तु वा भवेत् । बहलार्ध तु वा कुर्यादुच्छ्रये दर्शनांशिते ॥ ५२ ॥ यंशं तदूर्ध्वपढें स्यात् पद्मं तु त्रिभिरंशकैः । दलाष्टकयुतं वापि वृत्तं केसरसंयुतम् ॥ ५३ ॥ अधःपढें तदेकांशं तदधः पद्मपीठिकाम् । चतुरश्राकृतिं कुर्यादधःपट्टसमोन्नताम् ॥ ५४ ।। मूलाग्रपङ्कजे कार्ये ह्यर्धवृत्तविचित्रिते । पतयः पुष्पदामाद्यैः मुक्ताद्यैश्च विचित्रिताः ॥ ५५ ॥ पट्टिकाव्यासतः पादभागं नीत्वाथ पार्श्वतः । मातृसंज्ञकवाटस्य मूले चाने महामतिः ॥ ५६ ॥ भुजङ्गमधनं नीत्वा पतङ्गस्य घनं तथा। तयोर्मध्ये द्वारसूत्रे तन्मध्यं च यथा भवेत् ॥ ५५ ॥