________________
शिल्परने
पूर्वमागः संहाराख्यं कवाट स्यादित्तिकूटं च धावनम् । फलकाभिरयुग्माभिर्युग्माभिश्व सुरालये ॥ ३७ ॥
कवाटं तु मनुष्याणां स्यादयुग्माभिरेव हि । दण्डान्ध्यङ्गमतङ्गजांशबहलतालवद्युत द्वार्दल
व्यास (?) मूलशिखायुतं दृढतरं कार्य कवाटद्वयम् । कार्या वामकवाटरोचितपराग्भागर्धतीव्रात्ततः
तद्विघ्नप्रतता च सूत्रफलका सूद्यक्तनायुज्ज्वलाम् (?) ॥ वस्वादिसंकृत्यन्तासु संख्यावेकोनभाजिते ॥ ३९ ॥ द्वारतारे तदेकांशं कवाटबहलं विदुः ।। कवाटफलकायामं भुजङ्गमपतङ्गयोः ॥ ४० ॥ धनादिकं द्वारदीर्घसमं तत्र प्रकल्पयेत् । रङ्गपादौ च कर्तव्यो सुवृत्तावग्रमूलयोः ॥ ४१ ॥ स्वबाहुल्यसमायाम सार्ध वा मूलभागगम् । भारबाहुल्यसदृशमग्रगं रङ्गपादकम् ॥ ४२ ॥ कवाटद्वितयं कुर्यान्मापुत्र्यभिधं बुधः । पट्टिकाव्यासचतुरंशैकांशेन समन्वितम् ॥ ४३ ॥ स्वबाहुल्येन सहितं तद्वारतततो दलम् । व्यासं मातृकवाटस्य पट्टिकाविस्तृतार्धतः ॥ ४ ॥ रहितं पुत्रिकाव्यासमेवं वा परिकल्पयेत् । । योगयोः पार्श्वयोः पश्चात्कवाटौ योगमाश्रितौ ॥ ४५ ॥ प्रत्येकमेकं पद्मं वा द्वित्रिपद्ममथापि वा । द्वारतारचतुष्पञ्चषट्सप्ताष्टविभाजितः ॥ ४६ ॥