________________
शिल्परले
पूर्वभागः अरमामूलाग्रगैः शूलैः कीलैर्वा दृढतां नयेत् । एका वा स्यादुपद्वारे कवाटमिति केचन ॥ ७९ ॥ द्वारतारं कवाटस्य बहलद्वयसंयुतम् । कवाटफलकाव्यासं रङ्गपादौ च वामके ।। ८.॥ द्वारव्यासार्धमानं वा त्रिभागैकमथापि वा। भारस्यायाममेवं स्यात्खण्डीशेषं यथा पुनः ॥ ८१॥ अधोभारस्तु वा गर्तशङ्क वा कारयेदधः। कवाटबहलद्विग्नबहलं व्यासमेव च ॥ ८२ ॥ तत्स्थाने निखनेझूमौ तद्वितस्त्यायतात्मकम् । विभजेदूर्ध्व विस्तारे द्विधा चैकतमे पदे ॥ ८३ ॥ रङ्गपादप्रमाणेन गर्त कुर्याद् यथाविधि। पृष्ठमष्टाश्रकं कुर्यादर्धवृत्तमथापि वा ॥ ८४ ॥ अस्यारमार्धभाराभा कवाटघनमानतः। त्रिगुणं वास्य विस्तारमायामं तवयं भवेत् ॥ ८५ ॥ तत्तारस्य त्रिभागेन तन्मध्ये गर्तमाचरेत् । समतुर्यश्रकं वा स्याद् वृत्तं वा तद्यथोचितम् ॥ ८६ ॥ कवाटघनतुल्यं स्यात्तदर्गलधनं पुनः । आयामत्रिगुणं वा स्थाच्चतुर्गुणमथापि वा ॥ ८७ ॥ पृष्ठं बहलतुल्यं वा त्रिपादं वा यथोचितम् । बहलस्य त्रिभागैक नीत्वा तस्याग्रमूलयोः ॥ ८८ ॥
१. 'सां ख. पाठः.