________________
धाराणि] द्वाविंशोऽध्यायः।
१२७ स्वस्वयोन्या गृहादीनां कल्प्यन्तां द्वारयोनयः । दीर्घाच्छेषं तु वा तत्र द्वाराणां विस्तृतं भवेत् ॥ ७॥ अथवा गुणतारं वा कुर्याद् द्वारविधौ बुधः । द्वारव्यासोच्चमखिलमङ्गलिच्छेदवर्जितम् ॥ ८ ॥ यथा तथा प्रकर्तव्यं विस्तारायामकल्पने । गर्भागारस्य विस्तारे मनुभक्तेऽर्कभागतः ॥९॥ द्वारायाम तदिध्मांशं दशभागं विशालकम् । इदं तु वैष्णवं द्वारमथ शैवालये पुनः ॥ १०॥ गर्भव्यासार्कनागांशं लिङ्गहारायतं पुनः । आयताध तु विस्तारमथवा गर्भविस्तरे ॥ ११ ॥ सप्तांशे सति वेदांशं द्वारदीर्घमुदाहृतम् । तद्विश्वांशषडंशं स्याद् विस्तृतिः शिवमन्दिरे ॥ १२ ॥ नवपञ्चांशमुच्चं स्याद् गर्भगेहविशालकम् । दीर्घाद् रुद्रांशबाणांशं शैवद्वारे विशालकम् ॥ १३ ॥ गर्भगेहविशालाष्टपञ्चाशं द्वारतुङ्गकम् ।। तुङ्गादर्धं तु विस्तारं स्मृतं स्याच्छङ्कराच्युते ॥ १४ ॥ गर्भभूताग्निभागोच्चमुच्चेऽत्यष्टिविभाजिते । नवभागं स्मृतं तारमथवा गर्भगेहतः ॥ १५ ॥ . भानुसप्तकमायाम तस्मिंस्तिथिविभाजिते । द्वारे सप्तांशकं तारमेतौ साधारणौ मतौ ॥ १६ ॥ अथ पादसमुत्सेधादष्टसप्तायतं ततः। नवपञ्चविशालं तु गजपञ्चकमेव वा ॥ १७ ॥