________________
१२८ शिल्परत्ने
[पूर्वभागः अथवा विश्वषट्तारं द्वारं वैष्णवमीरितम् । तत्र सप्ताधिविस्तारं द्वारं कृष्णस्य पूजितम् ॥ १८॥ तत्रापि तिथिनागांशविस्तृतं द्वारमुत्तमम् । अशेषसुरसामान्यमिति पूर्वैरुदाहृतम् ॥ १९ ॥ सर्वेषामपि हाणां द्वारं मध्ये तु योजयेत् । तले तले विमानानां दिक्षु द्वाराणि विन्यसेत् ॥ २०॥ प्रदक्षिणवशादेकं मात्रं नीत्वाथवा पुनः । मार्गकूपतरुस्तम्भकोणपीडमशोभनम् ॥ २१ ॥ मुख्यद्वारस्य देवानां नराणां च विशेषतः । स्वस्य विस्तारतोऽर्ध वा साष्टार्धाशमथापि वा ॥ २२ ॥ त्रिपादं वाथ कर्तव्यं द्वारं योगधनं पुनः। योगोत्सेधे तु वेदांशे चतुरश्रमधोगतम् ॥ २३ ॥ एकांशमूर्ध्वगं ज्यश्रं बाह्येऽञ्जक्षेपणान्वितम् । पतङ्गे योगवत्कार्य धनं क्षेपणकाम्बुजम् ।। २४ ।।
तारं भुजङ्गमस्यापि तत्राजक्षेपणे विना । द्वारोत्सेधनियुक्तशेषचरणोत्सेधे शरांशीकृते ... यंशेनाधरपट्टिकामितधनां सार्धे नवाङ्कांशिते । हीनां वा जनकेन योगविततां शिष्टांशितः पट्टिका
मूर्ध्वस्थामथ मङ्गलाढ्यफलकां युक्त्यूर्ध्वपट्टयूव॑तः ।। द्वारोच्चे शेषपादोच्चे द्वादशांशविभाजिते ।। शिरोन्मानं तु सप्तांशं पञ्चांशं गुल्फमिष्यते ॥ २६ ॥