________________
अथ द्वाविंशोऽध्यायः ।
अथ द्वाराणि । गर्भागारप्रताने शिववसुदिनकृच्छैलतिथ्यांशतेंऽशैबिम्बहारोच्छ्रयः स्याद् गिरिशरतुरगाम्नायमातङ्गसंख्यैः । उत्सेधेऽत्रैकविंशत्यतिधृतितिथिविश्वाङ्कभक्ते प्रक्लप्ते व्यासो दिङ्नन्दशैलोयुदधिपरिमितांशैःक्रमात् कल्पनीयः॥ व्यासे गर्भनिकेतनस्य दहनेषुद्वारनेत्रांशिते
लिङ्गद्वारसमुच्छ्रयं वितनुयाद् द्वित्रीषुचन्द्रांशकैः । तस्मिन् द्वारसमुच्छ्रयेऽथ नयनात्यष्टीशशैलांशिते
तद्विस्तारमिलामहोरंगशराग्न्यशैः क्रमात् कल्पयेत् ॥ कुर्यात् सर्वसुरेषु शैलवसुनन्दाशांशितेऽध्रयुच्छ्रये
द्वारोत्सेधमिहैकभागरहितं विस्तीर्णमात्मार्धतः । योगौ स्तम्भसमाधिपाददलविस्तीर्णौ स्फुरद्वाजनौ विस्तारार्धघनौ भुजङ्गमपतङ्गाढ्यौ च मूलाग्रयोः॥३॥ अथवा पादतुङ्गस्य दशांशाष्टांशकं तु वा । एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टनवाङ्गुलैः ॥ ४ ॥ तुङ्गार्धादधिकं हीनं द्वारविस्तारमुच्यते । द्वारायामे तु नन्दांशे पञ्चाशं वास्य विस्तृतम् ॥ ५ ॥ लब्धात्सेधे तु दिङ्नन्दवसुसप्तांशके क्रमात् । सप्तषट्पञ्चवेदांशो दारव्यासस्तु मानुषे ॥ ६ ॥