________________
स्तम्भलक्षणम् ] एकविंशोऽध्यायः !
१२५ बोधिकारार्धकं वाथ त्रिपादं वागनीप्रकम् । तन्नीप्रसदृशं तारमम्भोजाकारकल्पितम् ॥ ११४ ॥ भग्रमध्यगतं कीलं तबिभागविशालकम् । अम्भोजमुकुलाकारं कलिपृष्ठं प्रकल्पयेत् ॥ ११५ ॥ बोधिकाखण्डमण्डीनि कुम्भं लशुनमूलकम् । अम्भोजमालां चानानि(?) पादपीठं पुनः क्रमात् ॥११६ ॥ क्रमेण योजयेदग्रात् सर्वस्तम्भेषु बुद्धिमान् । तत्र बोधिकया हीन कारयेद् वापि पीठकम् ॥ ११७ ॥ दारुपाद इति प्रोक्तं तद्विस्तारसमं तु वा । अध्यधैं. द्विगुणं वाथ विस्तारं त्विष्टकाघ्रिषु ॥ ११८॥ पादे शिलामये चैव कारयेत् सर्ववेश्मसु । मित्रपादं न कुर्वीत मानुषाणां गृहे पुनः ॥ ११९ ॥ देवागारे न दोषाय मित्रपादा भवन्ति हि । अथवा क्षुद्रहाणामन्यथा चरणाः स्मृताः ॥ १२० ॥ मूलतारेण तन्मूलत्रिगुणा वाथ सार्धकम् । चतुर्गुणं च कुर्यादा चतुरनं तथाग्रतः ॥ १२१ ॥ मूलतारसमं मध्यं तयोरष्टाश्रमाचरेत् । अष्टाश्रमध्ये तत्तारं तुल्यं वेदाश्रखण्डकम् ॥ १२२ ॥ मध्यखण्डं विना वात्र मानुषाणां निकेतने ।। १२३ ॥ इति शिल्परत्वे भित्तिवेदिकास्तम्भलक्षणं नाम
एकविंशोऽध्यायः।