________________
११४ शिल्परत्ने
[पूर्वमागः तदधस्त्वेकभागेन मुष्टिबन्धं तु कारयेत् । त्रिभागे बोधिकोत्सेधे सार्धाशेनाग्रपट्टिका ॥ १०३ ॥ . तदर्धार्धन तदधः क्षेपच्छायान्वितं भवेत् ।। तदुञ्चार्धात् त्रिभागानामंशाभ्यां वात्र कल्पयेत् ॥ १०४ ॥ सव्यासार्धात् त्रिपादात् कुर्याद् वा तास्वग्रमण्डनम् । दण्डं त्रिपादमध वा छायामानं तदग्रयोः ॥ १०५॥ ऊर्ध्वस्थपट्टिकाधस्थाच्छायाकारं प्रकल्पयेत् । अधस्थाद् बोधिकायां तु स्वाकारं प्रवदाम्यहम् ॥१०॥ मुष्टिबन्धं त्रिभागैकं विस्तारादर्धमेव वा । पार्श्वयोरुभयोः शेष छायाकारं भवेदिह ॥ १०७॥' समुद्रक्षेपणं मध्यप पत्राद्य(म?)लङ्कृतम् । पार्श्वयोस्तु तरङ्गाः स्युः समाश्वान्यो(न्य)हीनकाः॥१०८ ।। तरङ्गाश्चात्र वेदतुवस्वाशादित्यसंख्यकाः । बहवोऽपि समाश्चैके तुल्या उभयपार्श्वयोः॥१०९॥ सागरे वीचिकाकाराः पट्टिकाश्छन्नमध्यमाः। पार्श्वयोर्मुष्टिबन्धाग्रं व्यालरूपादिकल्पितम् ॥ ११० ॥ महार्णवी च पत्री च चित्री चेति त्रिधैव सा । भूतेभमकरव्यालरत्नबन्धविचित्रिता ॥ १११ ॥ वल्लीचित्राग्रपट्टा च सा ख्याता चित्रपोतिका । केवलं पत्रवल्लीभिर्विचित्रा पत्रपोतिका ॥११२॥ तरङ्गमात्रचित्रा या पोतिका स्यान्महार्णवी । बरोधीमूलाग्रयोः कार्यावग्रौ कीलसमन्वितौ ॥११३॥