________________
स्तम्भलक्षणम् ]
एकविंशोऽध्यायः ।
तदुत्सेधं त्रिधा भङ्क्ता भागेनोत्सन्धिरूर्ध्वतः । तदधो वेत्रमेकांशं तस्याधोऽम्बुजमंशतः ॥ ९२ ॥ अथवा फलकातुङ्गे पञ्चभागविभाजिते । सार्धेन फलकातुङ्गं तत्समो वेत्रनिर्गमः ॥ ९३ ॥ द्वाभ्यामब्जं प्रकर्तव्यं तदाकरोऽधुनोच्यते । नागपत्रसमाकारमावेत्रादब्जपद्मवत् ॥ ९४ ॥
}
१२३
अथ नागफणाकारमब्जं कुर्यान्मनोहरम् | विपरीतं विरूपं च वर्ज्यं तदशुभं यतः ॥ ९५ ॥ मण्ड्यू वीरकाण्डः स्यात् तत्तुङ्गं फलकोक्तवत् । अग्रपादविशालं तु विशालं तद्युगाश्रकम् ( ? ) ॥ ९६ ॥ तदूर्ध्वे पोतिकां कुर्यान्नानाभेदविचित्रिताम् । मूलंपादसमव्यासा पोतिका चर उत्तमा ( ? ) ॥ ९७ ॥ पादमध्यविशालेन समव्यासां च मध्यमा । अग्रपादविशालस्य समा कन्यसबोधिका ॥ ९८ ॥ विस्तारसदृशोत्सेधा पञ्चदण्डायतान्विता । उत्तमा बोधिका ख्याता तारत्रिद्व्यंशकोन्नता ॥ ९९ ॥ चतुर्दण्डायतोपेता मध्यमा सा प्रकीर्तिता । विस्तारार्धसमुत्सेधा गुणदण्डायतान्विता ॥ १०० ॥ कन्या बोधिका ख्याता तारे वाथाशुगांशिते । एकोनमुचं मध्याया नीचायास्त्र्यंशमुन्नतम् ॥ १०१ ॥ बोधिको त्रिभागे तु भूम्यंशेनोर्ध्वपट्टिका । मध्येऽशेन तरङ्गः स्याल्लताद्यैर्भूषितं तु वा ॥ १०२ ॥