________________
१२१ शिल्परले
[पूर्वमागः तस्य कर्णेन सदृशं कुम्भविस्तारमेव वा। स्तम्भव्याससमं प्रोक्तं तारं धृकर्णयोः स्मृतम् ॥ ८१ ॥ तदधो लशुनमूलं तत्तुङ्ग दण्डमानतः । स्वाष्टांशाधिकविस्तारं तस्याधः पङ्कजं पुनः ॥ ८२॥ पादतारसमं तारमर्धदण्डमथापि वा। त्रिपादं वाजकस्योच्चं तस्याधः कल्पयेत् पुनः॥ ८३ ॥ मालास्थानं तदुत्सेधं दण्डार्ध दण्डमेव वा। तस्याघो दण्डमानेन मुक्तादामविभूषणम् ॥ ८४ ॥ एतेषां स्तम्भविस्तारतुल्यं व्यासमुदाहृतम् । दण्डं वा सार्धदण्डं वा मूले पद्मासनोदयम् ॥ ८५ ॥ द्विगुणं तस्य विस्तारं पद्माकारं तु कारयेत् । तत्पद्मासनतुङ्गे तु चरणाना षडंशिते ॥ ८६ ॥ ऊर्ध्वपढें तदेकांशमूर्ध्वपञ तथांशतः।। कर्णमधुन कर्तव्यमधःपमं द्विभागिकम् ॥ ८७ ॥ तदधःपट्टमेकांशमधस्तादर्धमम्बुजम् । स्तम्भानां कुम्भतश्वीचे सर्वेषां फलका भवेत् ॥ ८८ ॥ त्रिदण्डं फलकाव्यासं कन्यसं सार्धलोकतः। चतुर्दण्डविशालं तु मण्ड्याश्चोत्तममुच्यते ।। ८९ ॥ अथवा फलकाव्यासः कुम्भकर्णसमो भवेत् । सर्वेषां फलकानां तु तुङ्गं पादोनदण्डतः ।। ९० ॥ स्तम्भाग्रतुल्यं मण्ड्युच्चं पञ्चभागोनमेव वा । पश्चभागं त्रिभागं वा यथायोग्यं करोतु च ॥ ९१ ॥