________________
स्तम्भलक्षणम्] एकविंशोऽध्यायः ।
१२१ पट्टक्षेपणसंज्ञः स्याच्चतुरश्रतिपट्टवान् । मूलाग्रयोस्तु विपुलो मध्ये रामांशतः कृशः ॥ ७२ ॥ वृत्तिश्चेद् दण्डपादाख्यो मूलशोलूखलासनः (?) । . मूलव्यासे तु सप्तांशे स्तम्भानामथवा पुनः ॥ ७३ ॥ यंशोनो मध्यभागः स्यादेकांशोनोऽग्रविस्तरः। इत्युक्ता निखिलाः स्तम्भाः कुम्भमण्ड्यादिभूषणैः ।।७४ ।। संयुक्ता वा वियुक्ता वा भवन्त्यखिलवेश्मसु । ओमां कुर्वीत दण्डद्वयततचरणोच्चां घटं दण्डयुग्मव्यासं साङ्घयादिदण्डोच्छ्रयमुदधिततां दण्डतोऽध्रयूनदीर्घाम् मण्डी दण्डप्रथाङ्ग्रयशकरहितघनं वीरकाण्डं त्रिसाधैः पूदन्वद्दण्डदीर्घा चरणतततदर्बोच्छ्रयां पोतिकां च ॥ ७५ ॥ कुम्भाः स्युः पादविष्कम्भाच्चतुर्थांशाधिकोन्नताः । सार्धा वा सत्रिपादा वा द्विगुणा वा भवन्ति हि ॥ ७६ ॥ श्रीकरं चन्द्रकान्तं च सौमुख्यं प्रियदर्शनम् । इति कुम्भाश्चतुर्धा स्युर्वृत्तानां श्रीकरो भवेत् ।। ७७ ॥ .. पादानां वसुकोणानां कुम्भः स्यात् प्रियदर्शनः । अथवा दण्डमानेन कुर्यादेवं घटोन्नतम् ॥ ७८ ॥ घटोच्छ्ये नवांशे धृग् भागेन परिकल्पयेत् । चतुर्भिः कुम्भ एव स्यात् कर्णोऽशेनांशतो मुखम् ॥ ७९ ॥ भागेन पद्ममेकेन पीठिकोर्ध्वादधोगतम् । स्तम्भाप्रकर्णमानेन यो व्यासः समविस्तृतः ॥ ८० ॥ .
१. 'द' ख. पाठः.