________________
शिल्परत्ने ।
[पूर्वभागः तयोर्मध्ये तु वस्वश्रः स भवेद् रुद्रकान्तकः । मूले पद्मासनश्चाथ चक्रवाकैरलङ्कृतः॥ ६१ ॥ सभद्रमध्यभागस्तु भद्रकान्तो विमण्डितः । व्यालेभभूतसिंहैस्तु मूले यः परिमण्डितः।। ६२ ।। इष्टका(न्तः) तथैवोर्ध्व तत्तत्कान्ताहयो भवेत् । वृत्त एव स्वदीर्पण शुण्डुभेदेन संयुतः ॥ ६३ ॥ शुण्डुपादः पिण्डिपादः स चेन्मुक्ताविचित्रितः । मूले वेदाश्रकश्चोर्ध्व षोडशाश्राद्यलङ्कृतः॥ ६४ ॥ स्यान्मूलचतुरश्राख्यं पद्मं पद्मासनं स्मृतम् । मूलाग्रयोस्तु वेदाश्रो मध्येऽष्टाश्राद्यलङ्कृतः ।। ६५ ॥ वज्रकान्तस्तु विज्ञेयो भक्तास्तम्भः समौक्तिकः । यद्रत्नचित्रितस्तम्भस्तत्तद्रत्नाभिधो भवेत् ॥ ६६ ।। मूले पद्मासनो मध्ये वोडशाऔरलङ्कृतः । ऊर्ध्वाश्रचतुरश्रोऽघिश्चित्रखण्डाह्वयः स्मृतः ॥ ६७ ।। स एवाष्टाश्रको मध्ये श्रीबन्धः पट्टबन्धवान् । विष्कम्भकर्णमानेन स्तम्भाग्रे चतुरश्रकम् ॥ ६८ ॥ तदधस्त्वर्धदण्डेनाप्यब्जमष्टाश्रसंयुतम् । दण्डमानेन तस्याधो वस्वश्रं परिकल्पयेत् ॥ ६९ ॥ तदधः पूर्ववत्पमं तस्याधो दण्डमानकम् । चतुरश्रसमायुक्तं तद्धः पद्ममुक्तवत् ॥ ७० ॥ मूलेऽवशेषं वेदानं चित्रखण्डाह्वयस्स च । मध्ये कलाश्रः पट्टेन बन्धः श्रीवत्ससंज्ञकः॥ ७१ ॥