SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ एकविंशोऽध्यायः । एके विंशतिरीशदोःप्रभृतिकेष्वेतेषु ते नैकधा चोक्ताः स्वाकृतिभूषणक्रमवशादेष्वर्चयेच्चोत्तरम् ।। ५२ ॥ युग्मं वा(स्यादयुग्मं वा)पादं देवालयादिषु । युग्ममेव नृणां शस्तमयुग्मं नैव कारयेत् ॥ ५३ ।। मूले चाग्रे च पादानां तत्तद्विस्तारभागतः । . चतुष्पञ्चांशतो बाथ शिखा स्यादुचितायता ॥ ५४ ॥ तदर्धं वा त्रिभागोनं चतुर्भागोनमेव वा। , कुड्यस्तम्भविशालः स्यात् तदर्धे वास्य निष्क्रमः॥ ५५॥ विस्तारस्य त्रिपादं वा चतुर्भागैकमेव वा । अष्टाश्रवृत्तवेदाश्रेष्वथ साधारणं तु वा ॥ ५६ ॥ नामान्येतेष्वनेकानि भवन्त्याकारभूषणैः। कार्याः स्युश्चरणा युगाष्टनृपकोणाः सर्वतो वर्तुला विस्तारत्रिगुणोपरित्रिगुणविस्तारोन्मिताष्टाश्रकाः । मूलोद्भावितकर्णसूत्रचतुरश्रो/शवृत्ताः पुनः शुण्डूझेदविचित्रवृत्तिरुचिरा वारब्धगेहोचिताः ॥ ५७ ॥ मूलाग्रं युगाग्रं तु कु(म्भ)मण्ड्यादिसंयुतम् । ब्रह्मकान्तमिति ख्यातं वस्वश्री विष्णुकान्तकः ॥ ५८ ॥ षडश्र इन्द्रकान्तः स्यात् सोऽयं वा स्कन्दकान्तकः । द्वादशाश्रो भानुकान्तश्चन्द्रकान्तः कलाश्रकः ॥ ५९॥ वर्तुलश्चेदीशकान्तः अथवा स्वस्य दीर्घतः। आयत्रिभागो वेदाश्रो वृत्तिस्त्वात्रिभागतः ॥ ६ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy