________________
शिल्परत्ने
अथवा चरणायामे षट्ताष्टनवांशिते । परुिद्रार्कभागैर्वा भक्ते भागाङ्घ्रिविस्तरे ॥ ४४ ॥
स्तम्भमूलविशालं स्यादेवं सकलभूमिषु । तस्मादग्रविशालं तु कारयेत् पूर्वमुक्तवत् ॥ ४५ ॥ कुड्यस्तम्भाविपुलं यत् तद्दण्डमिति स्मृतम् । तेन मेयानि सर्वाणि विमानांशानि सर्वशः ॥ ४६ ॥ प्रत्युत्तरान्तर्गत चरणसमुन्मान केष्टंकदिभि (?)
स्तेष्वेकांशात्तमूलप्रततितदुरगांशादिहीनाग्रतानान् । दारुस्तम्भांस्तद विहितततिदलाग्न्यब्धिभागोनतानान् कुड्यस्तम्भांश्व कुड्ये रचयतु चरणाग्रप्रतानोऽत्र दण्डः ॥
स्तम्भोत्तरादिकाङ्गानां द्रव्यं दारूपलेष्टकाः || स्तम्भान्तरं द्विहस्तादि भवेत् पञ्चरान्ततः ॥ ४८ ॥ स्तम्भयोरन्तरं हस्ताद्धीनं नैव समाचरेत् । + + + + यशः कुर्याच्चतुर्हस्तावसानकम् ॥ ४९ ॥ षडङ्गुलप्रवृधा तु नव भेदाः प्रकीर्तिताः । गृहीतांशवशाद् वापि यथायुक्तथा प्रयोजयेत् ॥ ५० ॥ प्रासादः सकलोऽङ्घ्रितोरणचतुर्द्वारान्वितो मण्डित
११८
[पूर्वभागः
स्तम्भाभ्यन्तरजालपञ्जरयुतो वा पञ्चहस्तादितः । युक्त मूलतले विदिस्थित चतुष्कूटैः परं तत्परः
शालः कूटकनासिकादिविलसज्जालोज्ज्वलत्पञ्जरम् || स्तम्भाः कोणचतुष्कमध्यविनिवेश्याः स्युः प्रतेरूर्ध्वतः सामान्येन समान्तराः सुरविमानेषूदिता द्वादश ।