________________
वेदिकालक्षणम् । एकविंशोऽध्यायः ।
तदूर्ध्वपट्टमेकेन कर्ण चरणभूषितम् । सर्वासां वेदिकानां तु गलमङ्घिविभूषितम् ॥ ३४ ॥ मध्यस्तम्भसमं व्यासं नीप्रकं वेदिकाघ्रिणः । गर्भभित्तित्रिभागैकमञ्जुर्वेद्यधिवेशनम् ॥ ३५ ॥ चतुर्भागैकभागं वा पञ्चभागैकमेव वा । अथवान्यप्रकारेण भवेद् वेद्यास्तु निर्गमः ॥ ३६॥ कुड्यपाहाह्यमानं तु पार्श्वयोः प्रस्तरान्तकम् । तेन षट्सप्तरन्ध्राष्टदशभागैर्विभाजिते ॥३७॥ एकांशरहितं शेषं वेदिकायास्तु निर्गमः ! सर्वत्र प्रस्तरस्योद्धे वेदिका स्याद् यथार्हकम् ॥ ३८ ॥ जालार्थ वेदिका नैव छिन्द्यादन्यत्र तोरणात् । द्वारार्थ वा यथोद्देशं वेद्याश्छेदो न दुष्यति ॥ ३९ ॥ प्रस्तरोत्तरयोर्मध्यं झषालस्तम्भमीड्यते ।
उपानोत्तरयोर्मध्यं निघ + स्तम्भमुच्यते ॥ ४० ॥ . प्रासादः सकलोऽख़ितोरणचतुर्दारान्वितो मण्डितः __ स्तम्भाभ्यन्तरजालपञ्जरयुतो वा पञ्चहरतादितः । यक्तो मूलतले विदि + + + + + + + + + + +
+ + + + + + + ++ + + + + + + + + + + || ४१॥ मूलभूस्तम्भविस्तारो ह्यष्टाविंशतिकाङ्गुलः । ह्यगुलद्यगुलहासाद् व्यासं (व)प्रतलक्रमात् ॥ ४२ ।। षण्मात्रं पादविस्तारं भवेद् द्वाशके तले । तयासादर्कभागाधाषड्भागोनामविस्तरम् ॥ ४३ ॥