________________
शिल्परत्ने
[पूर्वभागः त्रिचतुष्पकभागैर्वा गलोत्सेधे विभाजिते । गलमूलगवेद्युञ्चमंशं श्रेष्ठान्तराधमम् ॥ २३॥ कर्णमाने तु तन्मूले कम्पमेकेन कल्पयेत् । शेष कर्णोदयं प्रोक्तं तत्कम्परहितं तु वा ॥ २४ ॥ पुष्पखण्डाचित्रखण्डा शैवला चित्रशैवला । इति नाम्ना भवेद् वेदी तत्तद्भूषणभेदतः ॥ २५॥ कम्पनिद्राकम्पयुता पुष्पवत्खण्डमण्डिता । मूले पादान्विता या सा पुष्पखण्डेति कथ्यते ॥ २६ ॥ सैव निद्राकम्पपट्टपद्मपद्मविचित्रिता । पादपादान्तरे चित्रा चित्रखण्डाभिधीयते ॥ २७॥ स्तम्भकम्पाब्जपट्टाढ्या पट्टे शैवलचित्रिता। ऊर्ध्वाधः पद्मपत्राट्या पादे पादान्तरेऽपि च ॥२८॥ नरनारीपत्रचित्रा शैवलाख्या हि वेदिका।। सैवाधरोम्बुिजयोः वेत्रयुग्ममनोरमा ॥२९॥ प्राग्वद् विचित्रवेषा स्यात् सा वेदी चित्रशैवला। अध्यर्धाशं तु वा पद्ममाद्यं व्यंशमथापि वा॥ ३० ॥ चित्रशैवलविख्यातवेदिकाया विशेषतः।। पुष्पखण्डा चित्रखण्डा नृणां देवादिके स्मृते ॥ ३१ ॥ वेद्रीचतुष्कं स्तभादौ देवागारेषु सम्मतम् । अथवा क्षुद्रहाणां वेदिकोत्सेधमानतः ॥ ३२ ॥ षड्भक्ते पट्टमंशेन कर्ण द्वाभ्यां प्रकल्पयेत्। ऊर्ध्ववाजनमेकांशेनाब्जमंशेन कारयेत् ॥ ३३ ॥