________________
वेदिकालक्षणम्] एकविंशोऽध्यायः। फल काया घनं प्रोक्तं ज्यगुलान्तं मनीषिभिः । मृत्तिकाभिः प्रशस्ताभिः कषायसलिलादिभिः ॥ १४ ॥ मर्दिताभिश्च रचितं यत् कुड्यं तत् तु मृन्मयम् । कुड्यव्यासत्रिवेदांशबहलां वाग्रपङ्कजाम् ॥ १५ ॥
पट्टिकां चतुरश्रां वा कुड्योपरि नियोजयेत् । प्रत्युत्तरान्तर्विरचय्य भित्तिं ततः समन्तात् सुदृढैः शिलाद्यैः। तां भूषयेद् वेदिकयाज्रिमूले तदुर्ध्वतश्चोज्ज्वलपञ्जराद्यैः ॥ यभूमिमन्त्रबिम्बस्य प्रतिष्ठापि निरूपिता ।।
तद्भूम्यन्तं धनं कुर्यादिति शास्त्रविदो विदुः ॥ १७ ॥ प्रत्युत्सेधेन पादायतिवसुमुनिषड्भागतोत्स्यर्धकेन(?) द्वित्रिनेनाघ्रितारेण च भवति समोऽत्युच्छयो वेदिकायाः । उत्सेधे यंशितेऽधोवधिगुणरशनान्तर्यथाष्टाद्रिषड्भागेंऽशैः कम्पाब्जकम्पाः शशिकरशशिभिः शेषतोऽधोगलं च ॥
अध्यर्धदण्डमानं तु कन्यसा वेदिका मता। पादोनकलिदण्डं तु वेदिका मध्यमा स्मृता ॥ १९ ॥ त्रिदण्डं वेदिकातुङ्गं श्रेष्ठमित्याह काश्यपः॥ २०॥ (प)तया प्रत्युत्तरान्तर्गतचरणमिति भोगिभिर्भागतोऽधो
वेदि वेदैश्च पादानलरचितवलभ्युत्तरं भागतोऽथ । यावत् स्त्रोत्सेधनीप्रप्रसरवलभिभिः स्वाहनीप्रं कपोतं
गेहे + सप्तमेनोज्ज्वल + + गृहपिण्डि करोत्वष्टमेन ।। ऊर्ध्वभूमौ पादतुङ्गे सप्तभागविभाजिते । एकांशं खण्डहाणां वेदिकोभयमीरितम् ॥ २२ ॥ .