________________
शिल्परत्ने
[ पूर्वभागः
विस्तारेऽल्पग्रहे कचिद् विशिखभक्ते ( वा ? ) ऽन्तः पदे पीठिकां पझ्या गर्भगृहं करोतु परितः पङ्कया च भित्तिं घनाम् । तस्मिन् नन्दविभाजिते सति विधायैवं ततो वीथिकां भित्तिं चोभयपङ्क्तिो विरचयेद् द्वारं च कोष्ठेऽग्रतः ॥ ४ ॥ प्रासादस्य त्रिभागकं सप्तभागानलांशकम् । विशेषाद् गर्भगेहस्य विस्तारं प्राह काश्यपः || ५ || भित्तिस्तम्भस्य तारो यस्तेन द्वित्रिचतुर्गुणम् । पञ्चषड्गुणकं वाथ भित्तिविष्कम्भमिष्यते ॥ ६ ॥ कचित् तद्भारबहलतुल्यं भित्तेर्विशालकम् । अष्टाङ्गुलं समारभ्य यङ्गुलाविवर्धनात् ॥ ७ ॥ यावद् द्विहस्तकं तावत् कुर्याद् वा भित्तिविस्तृतम् । स्वस्योत्सेधशतांशैकहीनं कुड्याग्रविस्तृतम् ॥ ८ ॥ स्तम्भवद् वा बहिर्भागमन्तर्भागं समं भवेत् । तत् कुड्यं पञ्चधा प्रोक्तं तत्तद्रव्यविशेषतः ॥ ९ ॥ शिलामयं चेष्टकं च जालकामयमित्यपि । फलकामयमप्येतन्मृन्मयं च परं पुनः ॥ १० ॥ यथार्हव्यासतुङ्गं च कुड्यं शैलं शिलामयम् । तथैवेष्टकया कार्यं कुड्यं स्यादिष्टकामयम् ॥ ११ ॥ नानाजालक निष्पाद्यं कुड्यं यज्जालकामयम् । यथार्हस्तम्भविन्यासं शस्तदारुमयक्रियम् ॥ १२ ॥ फलकाभिश्चितं मध्ये कुड्यं स्यात् फलकामयम् । सार्धाङ्गुलं समारभ्य यवैकैकविवर्धनात् ॥ १३ ॥
११४