________________
भित्तिलक्षणम् ] एकविंशोऽध्यायः ।
मयोऽष्टाङ्गलमारभ्य द्विद्यङ्ग्लविवर्धनात् ! नालं षोडशमात्रान्तं पञ्चधेति जगाद ह ॥ १२ ॥ त्रिचतुष्पञ्चषण्मानं तारं तस्य समं धनम् । तारात् पञ्चत्रिभागं स्यादग्रं नालस्य वा पुनः ॥ १३ ॥ नालं पुंशिलया कार्य नालस्य वरुणोऽधिपः। अथवा पीठनालेन समायामादिसंयुतम् ॥ १४ ॥ शुण्डुभिश्चित्रवल्ल्यादिभूषणैश्च विभूषितम् । .. एवं तले तले कार्य गोमुखं प्रस्तरान्तरे ॥ १५ ॥ दक्षिणोदङ्मुखेष्वत्र विमानेषु महामतिः। प्रणालं प्राङ्मुखं कुर्यात् पूर्वसूत्रेऽथवा पुनः ।। १६ ॥
इति शिल्परने नाललक्षणं नाम ।
. विंशोऽध्यायः ।
अथ एकविंशोऽध्यायः।
अथ भित्तिः। चित्वेत्यधिष्ठानमिहानुरूपं समं तलीकृत्य शिलाप्रतानैः । . विभज्य गर्भान्तरबाह्यभित्तिं तन्मध्यनाडी रचयेद् यथार्हम् ॥
वह्नयादितिथ्यवधिकौजविभागभक्ते
व्यासे गृहस्य नयनादुरगान्तिमांशैः । पञ्चांशतश्च वसुभागयुतेऽर्धतश्च
गर्भालयस्य विततिं नवधोदितेति ॥ २ ॥ बाह्या गृहव्यासगजांशतः स्याद् भित्तिः परा गर्भगजांशतश्व। नाडी समन्तादुभयान्तराले सम्मेल्य वा भित्तियुग गृहेऽल्प ॥