________________
शिल्परने
[पूर्वभागः व्यात्तव्यालास्यमध्यप्रसृमरनिजमूलोज्ज्वलं गोमुखं तन्मुक्तादामादिवल्लीवलयपरिगतं शुण्डुभिर्मण्डितं च ॥ २॥ अथवान्यप्रकारेण नाललक्षणमुच्यते -
प्रतिबन्धे प्रतेरन्ते तदन्ते पट्टिकान्तके। गलान्ते कुमुदान्ते वा वप्रान्ते पादुकान्तके ॥ ३ ॥ छिद्रं कुर्यादधश्चोर्ध्वं नालं तस्मिन् सुयोजयेत्। जान्वङ्गुलं समारभ्य गुणाङ्गुलविवर्धनात् ॥ ४ ॥ चतुर्विंशाङ्गुलान्तं तु नालायाम हि पञ्चधा। । भित्तिबाह्यगतं तत्तत्तस्याध गर्भगेहके ॥ ५॥ वेशयित्वाथवा भित्तेरभ्यन्तरसमं तु वा । वस्वगुलं समारभ्य द्विद्यगुलविवर्धनात् ॥ ६॥ कलागुलावसानं तु विस्तारं पञ्चधा क्रमात् । तन्मूलतारपश्चांशे व्यंशं स्यादग्रविस्तृतम् ॥ ७ ॥ तद्विस्तारसमं वाथ त्रिपादं वा दलं घनम्। विस्तारस्य त्रिभागैकं छिद्रे तारं नतं तथा ॥ ८ ॥ नालमध्ये तु कर्तव्यं निनोन्नतविवर्जितम् । मूलादग्रनतं किञ्चिन्मूलं सिंहास्यबन्धितम् ॥ ९ ॥ गजोष्ठसदृशालंब्य (?) यथासुन्दरमग्रकम् । व्यालेभसिंहभूताद्यैर्वृतं नालं करोतु वा ॥ १० ॥ जगत्यङ्गुलमारभ्य हिड्यङ्गुलविवर्धनात् । आसंकृत्यङ्गुलं नालस्यायाम पञ्चधा स्मृतम् ॥ ११ ॥