SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ १०४ शिल्परत्ने [पूर्वभागः पद्मं च पट्टिका कम्पश्चैकैकांशैर्गलः करैः। भागेनैवोर्ध्वकम्पं स्यात् त्रिभिर्भागैश्च वाजनम् ॥ ६१ ॥ वप्रबन्धमिदं प्रोक्तं विप्रजात्यर्हकं भवेत् । अधिष्ठानस्य चोत्सेधे षड्विंशतिविभाजिते ॥ ६२ ॥ उपानकैकमगेन जगत्युच्च रसांशकम् । कुमुदं पञ्चभागेन कम्पमेकेन कारयेत् । ६३ ॥ गुणांशं गलमानं तु कम्पमेकेन कारयेत् । पद्ममेकेन कर्तव्यं कपोतोच्चं गुणांशतः ॥ ६४ ॥ आलिङ्गमेकभागेन तत्समं त्वन्तरी भवेत् । प्रतितुङ्गं द्विभागेन शिवांशं वाजनोदयम् ॥ ६५ ।। प्रतिबन्धस्य भेदं तत् पद्मबन्धमुदाहृतम् । नक्षत्रैः पादुकोच्चं रचयतु जगतीं पतिमातङ्गसंख्यैः सप्तत्या कैरवोच्चं त्रितयसहितया कर्णमद्रियाशैः । कम्पोत्सेधं समिद्भिः पुनरपि मनुभिः कन्धरं पट्टिकोच्चं विध्माशैः कुट्टिमोच्चे शतयुगयुतपञ्चाशदंशैविभक्ते ।। ६६ ।। शमानतः-- आलिङ्गमेकभागेन तत्सम त्वन्तरी भवेत् ॥ ६७ ॥ प्रतेरुञ्चत्रिभागेन वाजनं चैकभागतः। अब्जबन्धमिदं नाम्ना भेदं तत्प्रतिबन्धके ॥ ६८ ॥ उपानरहितं सर्व यथोक्तं प्रकरोतु वा ! चतुर्विंशतिभागेन तलोत्सेधे विभाजिते ।। ६९ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy