________________
प्रतिबन्धानि ]
एकोनविंशोऽध्यायः ।
ऊर्ध्ववाजनमेकांशं महापट्टिर्गुणांशतः ।
तदूर्ध्वकम्पमेकांशं पादबन्धमिदं विदुः ॥ ५१ ॥
षड्विंशद्विभजेदुश्ञ्चमुपानं चैकभागतः । द्विभागेन दलं कुर्यात् कम्पमेकेन कारयेत् ॥ ५२ ॥ षडंशं जगतेरुच्चमेकांशे दलमानकम् | कर्णमेकेन कर्तव्यमेकेनाब्जं तु कारयेत् ॥ ५३ ॥ कुमुदोच्चं गुणांशेन पद्ममेकेन कारयेत् । कम्पमंशेन कर्तव्यं कर्णोच्चं तु द्विभागतः ॥ ५४ ॥ एकांशं कम्पतुङ्गं तु तत्समं तु दलोदयम् । महापट्टिद्विभागेन दलमेकांशमानतः ॥ ५५ ॥ कम्पमेकेन कर्तव्यमष्टाश्रं कुमुदान्वितम् । अम्भोजकेसराख्यातं पादबन्धविशेषकम् ॥ ५६ ॥
१०३
अथ प्रतिबन्धानि । चन्द्रदृक्शशिशिवांशकै· रसैर्धातुभिश्च समभागिकैः क्रमात् । वाजनं प्रतिमुखत्रिकश्रुतौ कर्णवृत्तकुमुदे च वप्रकम् ॥ ५७ ॥ षत्रिभागसमभागिके तले नागवक्रसदृशं मुखद्दयम् । देवविप्रनृपमन्दिरेषु तद् योग्यकं ह्युरगबन्धकं भवेत् ॥ ५८ ॥ तुझे षड्विंशदंशे खुरमथ जगतीं कैरवं कम्पकर्णे
कम्पं पद्मं कपोतं तदुपरि + तथा निम्नदन्तादिवत्रम् । कम्पं भागेन षड्भिः शरशशिगुणचन्द्र कवेदांशकांशैर्द्धाभ्यामेकेन कुर्यादमरनरपतेर्मन्दिरे मञ्च बन्धम् ॥ ५९॥ आत्ताधिष्ठानतुङ्गे तु चतुर्विंशतिभाजिते । स्यादष्टभागैर्जगती सप्तांशैः कुमुदं भवेत् ॥ ६० ॥