________________
शिल्परत्ने
[पूर्वभागः इध्माहत्रेभिरुपानमतो धरित्री (?) ___ भागै रसैः कुमुदकं प्रकरोतु तुङ्गे। एकेन पट्टमथ कन्धरमीक्षणेन __ तहत् प्रतिं पुनरिदं खलु पादबन्धम् ॥ ४२ ॥ तुङ्गे षड्विंशदंशे तु गुणांशं पादुकोन्नतम् । द्विभागं दलमानं तु कम्पोच्चं शशिभागतः ॥ ४३ ॥ षडंशं तु जगत्युच्चं चतुर्भागं घटोदयम् । कम्पमेकेन कर्तव्यं कर्णोच्चं तु द्विभागिकम् ॥ ४४ ॥ ऊर्ध्वकम्पमथैकांशं गलभागं द्विभागतः । वाजनं चैकभागेन सार्धाशं कमलोदयम् ॥ ४५ ॥
कम्पमधेन कर्तव्यं श्रेणीबन्धमिदं भवेत् । अष्टसप्तशशियुग्मभागकैश्चन्द्रयुग्मशशिभागकैः क्रमात् । वप्रकं कुमुदकम्पकन्धराः कम्पवाजनमथो कम्पकम् ॥ ४६॥ पादबन्धमुदितं तदुच्छ्रये रुद्रयुग्म(क)विभाजिते तले ॥४७॥ ध्येकैकांशैः राशैर्युगश(शधर)दृक्चन्द्रभूम्यश्विनीभिर्भागेनोपानकाजं तदुपरि (च) तथा कम्पवप्रे च कुम्भे। पद्मं पट्टं च कर्ण तदुपरि + गतं कम्पमब्जं च पट्टीपढें तहप्रबन्धं द्विसहितकृतिना भाजिते पादबन्धे ॥ ४८ ॥ त्रिसप्तांशे तलोत्सेधे कृतेऽशेनैव पादुकम् । अम्बुजं सार्धभागेन कम्पम(शमुच्यते ॥ ४९ ॥ सप्तांशं जगतरुचं रसांशं कुमुदोदयः । आलिङ्गमेकभागेन गलमग्न्यंशकं विदुः ॥ ५० ॥