SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ पादबन्धानि एकोनविंशोऽध्यायः। कम्पमेकेन कर्तव्यमष्टानं कुमुदाकृति । अम्भोजकेसरं नाम्ना पादबन्धविशेषकम् ॥ ३२ ॥ त्रिसप्तांशे तलोत्सेधे पादुकं भूमिभागतः । . षट्पञ्चाशौ क्रमात् कार्यों वप्रकुम्भौ तथांशतः ॥ ३३ ॥ कम्पं गुणांशकं कर्णमूर्ध्वकम्पं शिवांशकम् । पद्ममंशेनाग्निभागैः कपोतं पादबन्धकम् ॥ ३४ ॥ श्रीकान्तमिति विख्यातं सर्वजात्यहकं भवेत् । अधिष्ठानस्य चोत्सेधे पञ्चविंशतिभाजिते ॥ ३५ ॥' शिवांशं पादुकोत्सेधं जगती वसुभागतः। धात्वंशं कुमुदोत्सेधं व्योमांशं कम्पमानकम् । ३६ ।। अनलांशं गलोत्तुङ्गं शश्य(शं) चोर्ध्वकम्पकम् । महापट्टिगुणांशैस्तु तदूर्व कम्पमंशतः । ३७ ॥ पादबन्धमिदं ख्यातमुपानरहितं तु वा ॥ ३८ ॥ वास्त्वाधारसमुच्छ्ये प्रकृतिभक्ते वा त्रिभिः पादुकं छन्दोभिर्जगती रसैः कुमुदकं चैकेन तत्पट्टिकाम् । भागाभ्यां गलपादकान् विरचयेद(शतः पट्टिका क्षुद्रां सार्धधरांशकेन महती स्वांशोल्लसद्वाजनाम् ॥३९॥ द्वादशांशे तलोत्सेधे वेदांशैर्जगती विदुः। कुमुदं तत्समं कम्पमंशं सार्धेन वाजनम् ॥ ४० ॥ प्रतिवाजनम(शमंशतः प्रस्तरोच्छयम् । पादबन्धमिदं सर्वदेवमानवयोग्यकम् ।। ४१ ॥ .
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy