________________
शिल्परत्ने
पूर्वभागः पादबन्धमधिष्ठानभिदं साकृतिभेदितम् । अष्टसप्त (श)शिरामभागिकै
श्चन्द्रलोकशशिभागकैः क्रमात् । वप्रकं कुमुदकम्प(क)न्धराः
कम्पवाजन(क)पट्टिकाः क्रमात् ॥ २३ ॥ पादबन्धमुदितं तदुच्छ्ये भास्करद्विगुणितांशिते तले । देवविप्रनृपवैश्यशूद्रकेष्वेवमुक्तमृषिभिः पुरातनैः ॥ २४ ॥
आत्ताधिष्ठानकोत्सेधे पञ्चविंशतिभाजिते । शिवांशपादुकं कुर्याज्जगती वसुभागतः ॥ २५ ॥ धात्वंशैः कुमुदोच्चं तु व्योमांशं कम्पमानकम् । अनलांशं गलोत्तुङ्गं शश्यंशं चोर्ध्वकम्पकम् ॥ २६ ॥ महाभट्टि गुणांशैस्तु तदूर्धेऽशेन कम्पकम् । पादबन्धमिदं ख्यातमुपानरहितं तु वा ॥ २७ ॥ आधिष्ठानस्य चोत्सेधेऽप्येकोनविंशदंशिते । उपानं चैकभागेन साब्जकम्प षडंशकम् .!!. २८ ॥ षडंशं जगतेरुच्चमेकांशं गलमानकम् । कर्णमेकेन कर्तव्यमेकेनाब्जं तु कारयेत् ॥ २९ ॥ कुमुदोच्चं गुणांशेन पद्ममेकेन कारयेत् । कम्पमेकेन कर्तव्यं कर्णोच्चं तु द्विभागतः ॥ ३० ॥ एकांशं कम्पतुङ्गं तु तत्समं तु दलोदयः । महाभट्रिहिभागेन दलमकांशमानतः ॥ ३१ ॥