________________
पादनन्धानि एकोनविंशोऽध्यायः । एकत्रिद्विद्विभागैः स्युगलमञ्चेऽष्टभाजिते । उपानजगतीकर्णप्रस्तराणि यथाक्रमम् ॥ १४ ॥ अष्टादशांशे त्रिभि(र? रेव) पादुकं
जङ्घाष्टाभिः पट्टमिलांशतो गलम्। द्वाभ्यां तदूर्ध्वगतमंशत एव पर्ट (?)
कर्णत्रिभागैर्गलमञ्चकाभिधे ॥ १५ ॥ अधिष्ठाने त्रिधा भक्ते पादुकं कुट्टिमं प्रतिम् । कुर्यादेकांशतः पद्माकारमेतैः करोतु वा ॥ १६ ॥ आयङ्गं दशधा कृत्वा कुर्यात् पादुकमंशतः । जङ्घामानं त्रिभिर्भागैः पट्टमानानलाशकम् ॥ १७ ।। द्विभागतो गलोत्सेधमेकाङ्गं पट्टिकोदयम् । द्वाभ्यां प्रस्तरमानं तु गलमञ्चविशेषकम् ॥ १८ ॥
अथ पादबन्धानि । अधिष्ठानोच्छ्ये द्वेधा भक्तेष्वंशेन कुट्टिमम् । अंशेन कुमुदोत्सेधमष्टधा विभजेत् परम् ॥ १९ ॥ पट्टिकांशेन कम्पांशकर्णाशौ तूर्ध्वकम्पकम् । अंशेनाथ त्रिभिर्भागैर्वाजनं परिकल्पयेत् ॥ २० ॥ पादबन्धमिदं ज्ञेयं मुख्यजात्याद्यदूषितम् । सप्तांशैर्जगती षड्भिः कुमुदं चैकमम्बुजम् ॥ २१ ॥ पट्टं च कम्पं चैकैकं कर्णोऽशावब्जमंशतः। . द्वौ वाजनं चाब्जमेकमंशाभ्यामूर्ध्वपट्टिकाम् ॥ २२ ॥