________________
- शिल्परत्ने
पूर्वभागः सर्वेषां प्रतिबन्धानां कुमुदं वृत्तमुच्यते । अत्र पूर्व मञ्चकानि
मञ्चकस्योच्छ्रयं कुर्यान्नवभागं विचक्षणः ॥ ५ ॥ द्विभागं पादुकं तत्र सप्तांशं कुट्टिमं भवेत् ।। द्वादशांशकृतोत्सेधे द्विभागं पादुकं विदुः । ६ ॥ सप्तांशं कुट्टिमोत्सधं रामाशं प्रतिरुच्यते । प्रतिमञ्चकनामैतन्नृणां साधारणं विदुः ॥ ७ ॥ पञ्चभागकृतोत्सेधेऽप्पेकांशं पादुकोन्नतम् । द्विभागैर्जगतीं तस्य कर्णमंशेन कारयेत् ॥ ८ ॥ प्रतेरुच्छयमेकेन नाम्ना तद् गलमञ्चकम् । सूर्याशककृतोत्सेधे द्यशं तत्पादुकं भवेत् ॥ ९ ॥ षडंशं कुट्टिमं विद्याद् गलं व्यंशं तु कारयेत् । वंशं तत्प्रस्तरं विद्याद् गलमञ्चकमीरितम् ॥ १० ॥
कुर्वीत स्फुटमिह जन्मकुट्टिम (तत्) ___ तत्पर्ट गलमथ पट्टिकां प्रति च । नेत्राङ्गक्षितिनयनेन्दुनेत्रभागै
र्मासूरैर्वलरिपुभाजिते क्रमोऽयम् ॥ ११ ॥ जन्म त्रिभागं वसुभिश्च जङ्घा तत्पट्टिकांशेन गलं द्विभागम् । तदूर्ध्वपढें रजनीकरांशं प्रतिर्गुणांशैर्गलमञ्चकाख्यम् ॥ १२ ॥
नवभागकृतोत्सेधे शिवांशं पादुकोन्नतम् । जङ्घाकर्णी + त्रिभागैर्गलमञ्चे प्रति दृशाम् ॥१३॥