________________
अधिष्ठानम्] एकोनविंशोऽध्यायः ।।
कम्पमधेन कर्तव्यं सप्तभामं गलं तथा। कम्पमर्धेन कर्तव्यमम्बुजं सार्धभागिकम् ॥ १७ ॥ महाभट्टिद्विभागेन पद्ममध्यर्धभागतः। कम्पमर्धेन कर्तव्यं पञ्चविंशतिभाजिते ।। १८ ॥ कल्याणकारणं नाम्ना सर्वधामसु पूजितम् । अथवा मञ्चकाद्यङ्गैर्भूषयेद् वोपपीठकम् ॥ १९ ॥ अङ्गनिष्क्रान्तवेशान्यप्यधिष्ठान(क)वद् (भवेत् )। आधिष्ठानं चोपपीठं मृदा चेष्टकयापि वा ॥ २० ॥ शिलाभिर्वा विधातव्यं दारुणा वा यथाबलम् ॥ २० ॥
इति शिल्परत्ने उपपीठलक्षणं नाम
अष्टादशोऽध्यायः ।
अथ एकोनविंशोऽध्यायः ।
अथाधिष्ठानम्। अधिष्ठानं मयः प्राह चतुर्दशविधं पृथक् । पराशरोऽपि द्विविधं त्रिविधं च परे जगुः ॥ १॥ मञ्चकान्यधमान्याहुः पादबन्धाभिधानि वै । मध्यमान्युत्तमानि स्युः प्रतिबन्धान्यसंशयः ॥ २ ॥ उपानं जगतीकुम्भं कन्धरं प्रस्तरं तथा । पञ्चवर्गमिति ख्यातमाद्यङ्गानां विशेषतः ॥ ३ ॥ कुमुदेन विना कार्य यत् तन्मञ्चकमुच्यते। पादबन्धतलानां तु वस्वश्रं कुमुदं भवेत् ॥ ४॥