________________
शिल्परत्ने
[पूर्वभागः
प्रकृत्यंशे तदुत्सेधे भागाभ्यां जन्म चाम्बुजम् । गलमर्धेन भागेन पद्मद्वयंशं तु वाजनम् ॥७॥ अर्धनाब्जं तथा कम्पमष्टकर्णाशमुत्तरम् । अर्धनाजं तु गोपानं त्रिभिः स्यात् कम्पमर्धतः ॥ ८॥ सुभद्र कमिदं नाना कथितं ह्युपपीठकम् । सिंहेभमकरव्यालभूतभद्राचलङ्कतम् ॥ ९॥ प्रतिवत्रं झषास्यं स्याद् बालेनारूढमस्तकम् । देवद्विजनरेन्द्राणां मकरास्यं प्रतेर्मुखम् ॥ १० ॥ स्वस्तिकं वाथ देवानामर्धेन्दुर्वैश्यशूद्रयोः । द्विभागं पादुकोत्सेधाद् द्विभागं पङ्कजादयम् ॥ ११ ॥ कम्पमेकेन कर्तव्यमेकेनान्तरिकं भवेत् । द्विभागं प्रतितुङ्गं तु तथैवैकेन वाजनम् ॥ १२ ॥ अष्टाङ्गगलतुझं तु पद्मकेन + कारयेत् । अब्जमेकेन कर्तव्यं कपोतोच्चं गुणांशकम् ॥ १३ ॥ एकेनालिङ्गपढें स्यादन्तरी चैकभागिनी। प्रतितुङ्गद्विभागं तु वाजनं चैकभागकम् ॥ १४ ॥ सन्तविंशद्विभक्ते(?) तु नाम्ना तत् प्रतिसुन्दरम् । उपानं तु द्विभागं स्याद् रामाशं पद्ममुच्यते ॥ १५ ॥ एकांशं कन्धरं विद्यादशाभ्यां पद्ममुच्यते । द्विभागं पट्टमानं स्यादयध पद्ममानकम् ॥ १६ ॥