________________
प्रतिबन्धानि] एकोनविंशोऽध्यायः ।
उपानं त्वेकभागेन द्विभागं तु दलोदयम् । तदूर्ध्वकम्पमेकांशं जगत्युच्चं शरांशकम् ॥ ७० ॥ वेदांशं कुमुदोत्सेधं पद्ममंशेन कल्पयेत् । कर्णमेकांशमित्युक्तमूर्ध्वपमं शिवांशकम् ॥ ७१ ॥ वाजनोच्चं द्विभागेन भूम्यंशं पद्मतुङ्गकम् । आलिङ्गमेकभागेन तत्समं कन्धरं भवेत् ॥ ७२ ॥ प्रतिमानं द्विभागं स्याद् वाजनं त्वेकभागतः ।
स्कन्दकान्तमिदं नाम्ना प्रतिबन्धस्य भेदकम् ।। ७३ ॥ मासूरे मिहिरद्वयांशि(नि) ततोऽशैः पादुकं पावकै___रष्टाभिर्जगतीं स्वरैः कुमुदकं शेषे दशांशेऽशकैः। त्रियग्न्यश्विमितैर्गलं विरचयेत् कम्पं गलं पट्टिकां
प्रत्युद्यन्मकरास्यकादिरुचिरां सिंहादिभिश्चोज्ज्वलाम्॥ मासूरेऽशैर्दिनेशांशिनि सति जगतीकैरवे श्रुत्युपायै
स्तच्छिष्टैः पट्टिकामन्तरिमपि रचयेद् वाजनं च प्रतिं च । प्रत्युत्पन्नक्रमाख्ये क्रम इति कथितः सर्वदेवालयेषु संपूज्यो मानवानामपि गृहकरणेष्वेष आद्यङ्गमुख्यः॥ अधिष्ठानस्य चोत्सेधे षड्विंशतिविभाजिते। उपानं त्वेकभागेन जगत्युच्चं रसांशकम् ॥ ७६ ॥ कुमुदं पञ्चभागेन कम्पमेकेन कारयेत् । गुणांशं गलमानं तु कम्पमेकेन कल्पयेत् ॥ ७७ ॥ पद्ममेकेन कर्तव्यं कपोतोच्चं गुणांशकम् । आलिङ्गमेकभागेनाप्यन्तरी तु शिवांशतः ॥ ७८ ॥