________________
(२०६)
सादर्श:
[विशेषकाण्डेकर्मिस्मरणस्यैवोपगमेन तत्र तादृशशक्तिसंबन्धज्ञानानियमतस्तत्प्रकारकधमिस्मरणोपगमेनुभवविरोधविरहात, अष्टापतेरपि सुकरत्वेन प्रतिबन्देर्वादिनिवर्तकत्वायोगाच्च ।
अथ गवादिपदस्थ समवायेन गोत्वादिविशिष्टवाचकत्वानुपगमे तज्जन्यबोधे गोत्वादेः समवाय एव संसर्गतया भासते न तु संबन्धान्तरमित्यत्र किं नियामकम् ?वाच्यानन्तर्भावस्य समवायसाधारण्येन संबन्धान्तराऽभानप्रयोजकत्वासंभवात, नहि जातिव्यक्ति विना न भासते इतिवत् समवायं विनापि न भासते इत्यपि नियमो येन जातिशक्तिज्ञानजन्यबोधे समवायभानस्याप्यावश्यकता न तु संबन्धान्तरभानमिति स्यात्, तदादिपदात समवायमविषयीकृत्यापि संबन्धान्त. रेण गोत्वादिविशिष्टविषयकवोधोदयादितिचेत् ?, गोत्वादेः गोत्वकालिकं गोपदम् । इत्यादिरूपेण समानकालिकत्वादिसंबन्धान्तरवत्तया गृहीतादपि गवादिपदाद् गोवादिप्रकारकव्यक्तिविशेष्यकमेव स्मरणं जायते इति तत्र गवादिपदे ( गवादिपदविषयकात् तादृशशक्तिसंबन्धज्ञानात् गोत्वादिमात्रे शक्तिरूपसंबन्धज्ञानान्नियमेन गोत्वादिप्रकारकव्यक्तिविशेष्यकस्मरणोपगमेऽनुभवविरोधाभावाद् गवादिपदस्य गोत्यादिजातिमात्रे शक्तिरुपेयते न तु व्यक्तावपि- गोत्वादेर्व्यक्ति बिना भानासंभवाद् व्यक्तौ शक्तिं विनापि व्यक्तिमानसंभवादित्यर्थः । नन्वेवं गवादिपदानां पश्यादिपदानां च वैषम्यं स्यादित्याशङ्कयाह- अत्रेति, अत्र एतादृशवैषम्ये इष्टापत्तिरेवास्तीत्येतादृशवैषम्यप्रदर्शनरूपा प्रतिबन्दिादिनः प्राभाकरस्य पराजयं कर्तुं न शक्कोतीत्यर्थः प्रतिभाति । ___व्यक्तौ गोत्वादिसंसर्ग तया यत् समवायो भासते तत्र तार्किकः शङ्कते- अथेति । स्पष्टं सर्वम् । समवायसंबन्धेन गोत्वादिविशिष्टा या व्यक्तिस्तद्वाचकत्वानुपगमे । तजन्यबोधे गवादिपदजन्यबोधे । यद्युच्यते वाच्यानन्तर्भावात् संबन्धान्तरं गोत्वादेः संसर्गतया न भासते तदा वाच्यानन्तर्भावस्तु समवायेप्यस्त्येव समवायेन गोत्वादिविशिष्टस्य वाच्यत्वानभ्युपगमात् केवलगोत्वादेव वाच्यत्वस्वीकारादित्याह-वाच्यानन्तर्भावस्येति । स्वाभिप्रायमाह- नहीति । न विति-- गवादिपदजन्यबोधे समवायभानस्याप्यावश्यकतास्तीति हेतोः संबन्धान्तरमानं न भवतीति सिद्धयेतेत्यर्थः । वस्तुतस्तु “संबन्धान्तरभानम् " इत्यत्र — संबन्धान्तरभानस्य ' इत्येवं पाठो युक्तः । ननु समवायं विना गोत्वादिविशिष्टव्यक्तेः कथं मानं स्यात् क वा भानं भवतीत्याशङ्याह- तदादीति, 'कालो गौः स ज्ञायते ' इत्यादिस्थले समवायं विनैव तच्छब्देन कालिकसंबन्धेन गोत्वविशिष्टकालविषयकबोधो जायते एवेति जातिशक्तिवादिमते गवादिपदजन्यबोधे नियमेन समवायमान नोपपद्यते इति समवायेन गोत्वादिविशिष्टव्यक्तावेव शक्तिः स्वीकार्या तथा च समयायेन गोत्वाद्विविशिष्टव्यक्तेर्वाच्यत्वे समवायस्थ वाच्यान्तर्भादेन नियमात् समवायभानमुपपद्यते, संबन्यान्तरस्य च बाच्यान्तर्भावित्वाभावाद् भानापत्तिर्नास्तीत्यर्थः ।