________________
प्रभाकरमतम्.] शक्तिवादः।
(२०५) दिपदस्य लोमत्वाद्यवच्छिन्नमात्रवाचकत्वोपगमे न धामधीः संभवतात तस्य धर्मवाचकत्वमितिवाच्यम्, उपाधे(मविनिर्मोकण . भानसंभवरूपस्य जात्यपे. क्षया विशेषस्य सत्त्वेपि जातिशक्तपदज्ञानस्य जातिप्रकारिकायामिवोपाधिशक्तपदज्ञानस्याप्युपाधिप्रकारकर्मिविषयकबुद्धौ कारणताकल्पने बाधकाभावाद् उपाधिमात्रशक्तादपि धर्मिधीसंभवादितिचेत् ?, ..
न- लोमत्वाद्यवच्छिन्नसंबन्धान्तरवत्तया गृहीतात् पश्वादिपदालोमत्वादिना लोमादिमुख्यविशेष्यकस्यैव स्मरणस्य धर्मिस्मरणोद्बोधकान्तरविरहदशायामु. त्पाददर्शनात तत्तद्रूपावच्छिन्नशक्तत्वेन गृहीतात पदादपि तत्तद्रूपावच्छिन्नमुख्यविशेष्यकस्मरणोत्पादस्यानुभविकत्वात् ततस्तद्धर्मावच्छिन्नप्रकारकर्मिस्मरणस्य नियमतः स्वीकारासंभवालोमादिमात्रशक्तत्वेन गृहीतपदान्नियमतस्तत्प्रकारक
शाब्दबोधस्याऽनिर्वाहात् । अविशेषितगोत्वादेः संबन्धान्तरज्ञानादपि तत्प्रकारलोमाद्यात्मकोपार्लोमत्यादिरूपेण धर्मिणं विनापि भानं संभवति जातेश्च धर्मिणं विना भानं न संभवति-निर्विकल्पकस्मरणादेरस्वीकारादिति जात्यपेक्षयोपाधेर्विशेषस्य सत्त्वेपि यथा जातिमात्रशक्तपदज्ञानस्य जातिप्रकारकव्यक्तिविशेष्यकशाब्दबोधं प्रति कारणता त्वया कल्प्यते तथा पशुपदस्प लोमाद्यात्मकोपाधिमात्रे शक्ती स्वीकृतायामपि तादृशोपाधिमात्रशक्तपशुपदज्ञानस्यापि लोमाद्यात्मकोपाधिप्रकारकपशुव्यक्तिविशेष्यकशाब्दबोधं प्रति कारणताकल्पने बाधकं नास्ति युक्तेः साम्यादुपाधिमात्रशक्तपदादपि धर्मिविषयकशाब्दबोधसंभवादिति पशुपदस्य पशुव्यक्ती शक्तिर्न स्वीकार्येत्यर्थः । __ अथेत्यादिना शङ्कितं प्राभाकरः परिहरति- नेति । तत्तद्रूपेति-यस्य पदस्य यद्पावच्छिन्ने शक्तिग्रहो भवति तस्मात् पदात् तद्रूपावच्छिन्नस्यैव मुख्य विशेष्यतया स्मरणं भवतीति नियमात् 'लोमत्वावच्छिन्नकालिक पशुपदम्' इत्यादिलोमत्वावच्छिन्नस्य कालिकत्वादिसंबन्धान्तरवत्तया गृहीतात् पशुपदाद् धर्मिस्मरणोद्बोधकान्तरविरहदशायां लोमादिमुख्यविशेष्यकस्मरणस्योत्पत्ति. दर्शनाच ततः लोमाद्यात्मकोपाधिमात्रशक्तपशुपदात् तद्धर्मावच्छिन्नप्रकारकर्मिस्मरणस्य लोमा त्वावच्छिन्नलोमप्रकारकपशुव्यक्तिविशेष्यकस्मरणस्य नियमतः स्वीकारासंभवात् लोमादिमात्रशक्तत्वेन गृहीतात् पशुपदानियमतस्तत्प्रकारकशाब्दबोधस्य लोमप्रकारकपशुव्यक्तिविशेष्यकशाब्दबोधस्याऽनिर्वाहात् पशुपदस्य पशुव्यक्ती शक्तिः स्वीक्रियते, यदि पशुव्यक्तिं विना लोमादेः स्मरणं न स्यादेव तदा लोममात्रशक्तपशुपदात् लोमभानकाले पशुव्यक्तेरपि भानं स्यादेवेति पशुपदस्थ पशुव्यक्ता शक्तिकल्पना न स्यादपि न चैत्रमस्ति-पशुव्यक्ति विनापि लोमत्वादिप्रकारकलोमादिस्मरणसंभवादित्यर्थः । 'लोमत्वावच्छिन्न कालिकं पशुपदग्' इत्येवं लोमपशुपदयोः समानकालिकत्वसंबन्धे गृहीते 'एकसंबन्धिज्ञानमपरसंबन्धिस्मारकम्' इतिनियमात् पशुपदज्ञानेन लोममुख्यविशेष्यकस्मरणं जायते इत्युक्तम्-"लोमत्वाद्यवच्छिन्नसंबन्धान्तरबत्तया" इति । जातिवाचकपदस्य विशषमाह-अविशेषितेति, गोत्वादेर्गोत्वत्वादिना विशेषितस्य भानं न भवतीत्यविशेषित