________________
-ज्ञानशक्तिवादः ]
शक्तिवादः ।
(2009)
एवं सति ज्ञानशक्तिरेवादरणीया तथा च गवादिपदस्य समवायेन गोत्वादि-प्रकारकज्ञाने एव शक्तेरुपगमात् ततो नाऽभ्रान्तानां संबन्धान्तरेण तत्प्रकारकधीःतत्संबन्धेन तत्प्रकारकज्ञानशक्तिग्रहस्यैव तादृशबोधहेतुत्वादिति वाच्यानन्तर्भावस्य समवायाsसाधारण्येन संबन्धान्तरभान प्रयोजकत्वासंभवादिति कृतं पल्लवितेन ॥ ॥ इति श्रीमहामहोपाध्यायन्याय सिद्धान्तवागीश श्रीगदाधरभट्टाचार्यविरचितः शक्तिवादविचारः समाप्तः ॥
उक्ताशङ्कायामाह — एवं सतीति, यदि जातिमात्रे शक्तिस्वीकारेण गवादिपद जन्यबोधे नियमेन समवायमानं नोपपद्यते तदा गवादिपदस्य समवायेन गोत्वादिप्रकारकज्ञाने एव शक्तिः स्वीकार्य तथा च समवायस्य वाच्यान्तर्भावेण गोत्वादेः संसर्गतया समवायस्यैव मानं संभवतीति ततः = गवादिपदादभ्रान्तानां संबन्धान्तरेण गोवादिप्रकारकभानस्यापत्तिर्नास्तीत्यर्थः । गवादिपदादआन्तानां समवायातिरिक्त सबन्धेन गोत्वादिप्रकार कशाब्दबोधासंभवे हेतुमाह- तत्संबन्धेनेति, यस्य पदस्य येन संबन्धेन यत्प्रकारकज्ञाने शक्तिग्रहो जायते तस्मात् पदादभ्रान्तस्य तेनैव संबन्धेन तत्प्रकार कशाब्दबोधो जायते इतिनियमेन गवादिपदानां समवायेनैव गोत्वादिप्रकारकज्ञाने शक्तिमहा गवादिपदजन्यशब्दबोधे गोलादेः संसर्गतया समवाय एव भासते न संबन्धान्तरमित्यर्थः । समवायेन गोत्वादिप्रकारकज्ञाने शक्तिग्रहात् समवायस्य वाच्यान्तर्भूतत्वेन वाच्यानन्तर्भावः समवायसाधारणो नास्ति येन वाच्यानन्तर्भावस्य समवायातिरिक्तसंबन्धभानप्रयोजकत्वं स्यादित्याह -- वाच्यानन्तर्भावस्येतिशम् ||
श्रीमद्गुरुमुखाज्जातपदार्थानां हि संग्रहः । स्वकीयज्ञानरक्षायै कृतोयं युक्तयत्नतः ॥ व्याख्यां व्युत्पत्तिवादस्य ह्यादर्शाख्यां प्रकाश्य च । बालेभ्यः शक्तिवादस्य ह्यादर्शोयं प्रकाशितः || अनेकप्रन्धनिर्माणश्रमसंदोहवर्षितम् ।
-
शरीरं शीर्णतां प्राप्तमेतद् व्यसनदुष्कलम् ॥ वन्दे श्रीमद्धयग्रीवं मन्देभ्यः करुणानिधिम् । विद्यागुरुं तथा वन्दे श्रीगङ्गाधरशास्त्रिणम् ॥ यः साङ्ख्ये कपिलः पतञ्जलिरलं शाब्दे कवित्वे परं श्रीहर्षोऽयदर्शने शिवतनुस्तर्केषु यो गौतमः । मीमांसामत जैमिनिर्ध्रुवमुपाध्यायो महद्भ्यो महान् स्याऽईईपदमृद् गुरुर्विजयते शास्त्री स गङ्गाधरः ॥ ॥ इति पञ्चनदीय (पंजाबी) पण्डितसुदर्शनाचार्यशाखिप्रणीता शक्तिवादस्याऽऽदर्शाख्या व्याख्या
समाप्ता ॥