________________
(२०२) सादर्श:
[ विशेषकाण्डेन-शक्तिलक्षणासाधारणस्याऽनतिप्रसक्तवृत्तित्वस्य दुर्बचतया शक्तित्वशक्यसंबन्धत्वाभ्यामेव तयोनिवेशनीयतया शक्तिलक्षणाधीनपदार्थोपस्थित्योः कारणताभेदस्य व्यक्तिशक्तिवादिनामप्यावश्यकतया शक्त्यधीनपदार्थोपस्थितेस्तद्धर्मगृहीतशक्तिकपदज्ञानजन्यतद्धर्मप्रकारकोपस्थितित्वेनैव तद्धर्मप्रकारकशाब्दबोधहेतुतायाः कल्पयितुमुचितत्वात् ।
न च तद्धर्मावच्छिन्नविषयतानिरूपितशक्तिविषयताशालिज्ञानत्वेन व्यक्ती शक्तिलक्षणाग्रहयोर्व्यक्तिशक्तिवादिमतेऽनुगमः सम्भवति- 'गोसम्बन्धिशक्तं पदम्' इत्याकारके 'पदशक्यसम्बन्धिनी गौः' इत्याकारके वा लक्षणाग्रहेपि
तार्किकेन प्रभाकरमते यलक्षणाज्ञानाधीनोपस्थितेहेतुत्वान्तरकल्पनेन गौरवं प्रदर्शितं तादृशगौरवं व्यक्ति शक्तिवादितार्किकमतेप्यस्त्येवेति प्रदर्शयन् प्राभाकरोऽयेत्यादिना शकितं परिहरतिनेति । तयोः शक्तिलक्षणयोः । व्यक्तिशक्तिवादितार्किकमतेपि शक्तिज्ञानाधीनोपस्थितेलक्षणा ज्ञानाधीनोपस्थितेश्च शाब्दबोधं प्रति पृथक् पृथगेव कारणत्वं संभवति- शक्तिलक्षणयोरेकरूपेणानुगमासंभवादित्याह- शक्तिलक्षणाधीनेति । तथा च ताकिकेनापि शक्त्यधीनपदार्थोपस्थिते. स्तद्धर्मगृहीतशक्तिकपदज्ञानजन्यतद्धर्मप्रकारकोपस्थितित्वेनैव रूपेण तद्धर्मप्रकारकशाब्दबोधं प्रति हेतुत्वं वक्तव्यम्, अनेन च रूपेण लक्षणाधीनोपस्थितेस्तु शाब्दबोधहेतुत्वं न संभवति- तस्यास्तद्धर्मगृहीतशक्तिकपदशानजन्यवाभावादिति लक्षणाधीनोपस्थितेः पृथगेव हेतुत्वं स्वीकार्यमिति प्रदर्शितगौरवं तार्किक्रमतेप्यस्त्येवेत्यर्थः ।
ननु व्यक्तिशक्तियादितार्किकमते व्यक्तिविषयकस्य शक्तिज्ञानस्य लक्षणाज्ञानस्य च तद्धर्मावछिन्नविषयतानिरूपितशक्तिविषयताशालिज्ञानत्वेन रूपेणानुगमः संभवति यथा 'गङ्गापदं प्रवाहे शक्तम् । इत्याकारकशक्तिज्ञाने प्रवाहत्त्वावच्छिन्ननिरूपिता या शक्तिविषयता ( शक्तिविषयकता ) तच्छालित्वमस्त्येव, लक्षणास्थले यद्यपि तद्धर्मावच्छिन्नविषयताया नाम लक्ष्यार्थविषयतायाः शक्तिविषयतायाश्च परस्परं साक्षानिरूप्यनिरूपकभावो नास्ति तथापि परम्परया तु निरूप्यनिरूप. कभावोस्त्येव- लक्ष्यार्थविषयतायाः शक्यार्थविषयताद्वारा शक्तिविषयतया समं निरूप्यनिरूपकभावस्याऽक्षतत्वादिति ' गोसंबन्धिशक्तं पदम् । 'तीरसंबन्धिप्रवाहशक्तं गङ्गापदम् ' इत्याकारकपदविशेष्यकलक्षणाज्ञानेपि ' पदशक्यसंबन्धिनी गौः ''गङ्गापदशक्यसंबन्धि तीरम् ' इत्याकारकार्थविशेष्यकलक्षणाज्ञानेपि च शक्यार्थविषयताद्वारा लक्ष्यार्थविषयतानिरूपिता या शक्तिविषयता तच्छांलित्वमस्त्येवेत्येतादृशविषयताशालिज्ञानजन्यत्वेन शक्तिज्ञानाधीनलक्षणाज्ञानाधीनोपस्थित्योः संग्रहसंमवात् तार्किकमते लक्षणाज्ञानाधीनोपस्थितेः पृथक् कारणताकल्पनापत्त्यभावाद् गौरवं नास्तीत्याशङ्कते- न चेति । प्रभाकरमते तु नैवं शक्तिलक्षणाज्ञानयोरनुगमः संभवति- जाती शक्तिस्वीकारेण गङ्गापदस्य यत्र प्रवाहत्वे शक्तिस्तेन प्रवाहत्वेन तीरस्य साक्षात् संबन्धाभावात् तीरविषयतायाः प्रवाहत्वविषयताद्वारापि शक्तिविषयतया समं निरूप्यनिरूपकमावासंभवात, तार्किकमते :