________________
प्रभाकरमतखण्डनम् ]
शक्तिवादः।
(२०१)
शक्तपदस्यैवाऽनुभावकतेति सिद्धान्तात् सर्वलाक्षणिकस्थलेऽन्वयबोधानुपगमातू तत्स्थलीयसामग्रीबलात् सर्वार्थाध्याहारस्थलेप्यन्वयबोधापत्तिरिति शङ्कानवकाशादितिवाच्यम्, यत्र लाक्षणिकपश्चांदिपदाद्गोत्वादिप्रकारिकोपस्थितिस्तदव्यवहितोत्तरद्वितीयादिविभक्तितः शक्त्या कर्मत्वाद्युपस्थितिस्ततश्च कर्मत्वादिविशेध्यको गोत्वाद्यवच्छिन्नप्रकारकः शाब्दबोधस्तत्स्थलीयसामग्री लक्षणाधीनपदार्थोपस्थितेरध्याहारात्मकोपस्थितिसाधारणरूपमात्रेण हेतुतामते कर्मत्वायुपस्थापविभक्तिप्रकृतिभूतपश्वादिपदाद् यत्र न गोत्वाद्यवच्छिन्नोपस्थितिरपि तु निराकाक्षपदान्तरादनुमानादितो वा तत्राप्यक्षतैवेति तादृशशाब्दबोधस्य तत्रापत्ते१रित्वात् । अर्थाध्याहारमतेपि यत्र साकाङ्क्षपदान्न प्रकृतवाक्यार्थघटकस्य कस्याप्यर्थस्योपस्थितिस्तत्र शाब्दबोधोत्पत्तेरनिष्टत्वादितिचेत् ?, शक्यार्थबोधकत्वाभावाच्छाब्दबोध एव न जायते येन तत्स्थलीयसामग्रीबलात् सर्वलाक्षणिकपदस्थलीयसामग्रीबलात् सर्वार्थाध्याहारस्थले शाब्दबोधापत्तिः स्यादित्यर्थः वस्तुतस्तु पूर्वमध्याहृतपदार्थोपस्थितेर्येनरूपेण हेतुता तेन रूपेण लक्ष्यार्थोपस्थितेर्हेतुताया उक्तत्वादत्र सर्वार्थाध्याहारस्थलेऽन्वयबोधानुपगमात् तत्स्थलीयसामग्रीबलात् सर्वलाक्षणिकस्थलेप्यन्वयबोधापत्तिरिति शङ्कानवकाशात्! इत्येवं वक्तव्यम्। परिहारहेतुमाह- यत्रेति, यद्यऽध्याहृतपदार्थोपस्थितेर्येन रूपेण हेतुता लक्ष्यार्थो. पस्थितेरपि तेनैव रूपेण शाब्दबोधं प्रति हेतुता स्यात्तदा पशुपदस्य गोत्यावच्छिन्ने लाक्षणिकत्वाद् यत्र- 'पशुमानय , इत्यादौ गोत्यावच्छिन्ने लाक्षणिकात् पशुपदाद् गोत्वप्रकारकगोविशेष्यकोपस्थितिस्तादृशपशुपदाव्यवहितोत्तरवर्तिद्वितीयाविभक्तितः शक्त्या कर्मत्वोपस्थितिर्जायते तदनन्तरं तादशोपस्थितिभ्यां गोत्वावच्छिन्नप्रकारककर्मत्वविशेष्यकः ‘गोविशिष्टमानयनकर्मत्वम्। इत्याकारकः शाब्दबोधो जायते तत्स्थलीया उक्तकर्मत्वविशेष्यकशाब्दबोधस्थलीया योक्तोपस्थितिद्वयरूपा शाब्दबोधसामग्री सा लक्षगाज्ञानाधीनपदार्थोपस्थितेरध्याहारात्मकोपस्थितितुल्यरूपेण-योग्यतादिज्ञानाधीनोपस्थितित्वेन रूपेण शाब्वोधं प्रति हेतुतामते यत्र कर्मत्वाद्युपस्थापकद्वितीयादिविभक्तिप्रकृतिभूतपश्वादिपदान्न गोत्वावच्छिन्नोपस्थितिः किं तु निराकाङ्क्षदुग्धादिपदान्तरादनुमानादितो वा गोत्वावच्छिन्नोपस्थितिस्तत्रापि ( सोक्ता शाब्दबोधसामग्री अक्षतैवनिराकाङ्क्षदुग्धादिपदादनुमानादितो वा जायमानाया अपि गोत्वावच्छिन्नोपस्थितेर्योग्यतादिज्ञानेनैव जायमानत्वादिति ताशस्थलेपि तादृशशाब्दबोधस्यगोप्रकारककर्मत्वविशेष्यकशाब्दबोधस्यापत्तिः स्यादेव न चैतदिष्टमितिनाऽध्याहृतपदार्थोपस्थितितुल्यरूपेण लक्ष्यार्थोपस्थिते: शाब्दबोधहेतुत्वं संभवतीति लक्षणाज्ञानाधीनोपस्थितेरुक्तरीत्या शाब्दबोधं प्रति हेतुत्वान्तरकल्पनेन गौरवं स्यादेवेत्यर्थः । ननूक्तस्थले उक्तशाब्दबोध इष्ट एवेत्याशङ्कयाह- अर्थाध्याहारेति, अर्थाध्याहारमतेपि यत्र प्रकृतवाक्यार्थघटकस्य कस्याप्यर्थस्य साकाङ्क्षपदादुपस्थितिर्न भवति तत्र शाब्दबोधोत्पत्तेरस्वीकारात् तत्र प्रदर्शितशाब्दबोधापत्तिरिनिष्टैवेत्यर्थः । तन्मते शक्तपदस्यैवाऽनुभावकत्वनियमेन शक्तपदेन किंचिदर्थोपस्थितौ सत्यामेव शाब्दबोधस्येष्टत्वादितिभावः ।