________________
(२००) सादर्श:
[ विशेषकाण्डेन च तन्मतेऽध्याहतार्थस्याप्यन्वयबोधविषयतया पदजन्यपदार्थोपस्थितित्वेन हेतुतैव नास्ति कथमुक्तानुपपत्त्यवकाश इतिवाच्यम्, सर्वपदार्याध्याहारस्थलेऽन्वयबोधवारणाय तन्मतेपि तादृशहेतुताया व्यवस्थापितत्वात् ।
न च तथापि पदज्ञानजन्यपदार्थोपस्थितित्वघटितकारणतावच्छेदकेन जातिमव्यक्तिलाक्षणिकपदजन्यव्यक्त्युपस्थितेरसंग्रहो न दोषाय- अध्याहृतपदार्थोपस्थितेयेन रूपेण हेतुता व्यवस्थापिता लक्ष्यार्थोपस्थितेरापि तदूपाक्रान्ततयैवोपपत्तेः,
ननु तन्मते-प्रभाकरमतेऽध्याहृतपदार्थस्यापि शाब्दबोधविषयत्वं भवति यथा 'द्वारम्' इत्युक्तेऽध्याहृतस्य विधानपदार्थस्थ. न चाध्याहृतपदार्थस्योपस्थितिः पदज्ञानजन्या भवतीति न शाब्दबोधं प्रति पदज्ञानजन्यपदार्थोपस्थितेर्हेतुत्वं किं तूपस्थितिमात्रस्यैवेति नाध्याहृतपदार्थस्य शाब्दबोधविषयत्वानुपपत्तिस्तथा चोक्तस्थलेष्यप्युपस्थितेः सत्त्वादेव न शाब्दबोधानुपपत्तिरित्याशङ्क्याह-- न चेति । परिहारहेतुमाह--- सर्वेति, यदि पदजन्यपदार्थोपस्थितेहेतुत्वं शाब्दबोधे न स्यात्तदा सर्वपदार्थाध्याहारस्थलेपि प्रभाकरमते शाब्दबोधः स्यादेव न च प्रभाकरमतेपि सर्वपदार्थाध्याहारस्थले शान्दबोध इष्ट इति तद्वारणाय प्रभाकरमतेपि तादृशहेतुतायाः-शाब्दबोधं प्रति पदजन्यपदार्थोपस्थितेर्हेतुत्वं व्यवस्थापितमेवास्तीत्युक्तरीत्योक्तानुपपत्तीनामवकाशोऽस्त्ये. वेत्यर्थः । यत्र चेष्टया द्वारपिधानं प्रतिपाद्यते तत्र द्वारयोः विधानस्यापि चाध्याहारात् सर्वपदाध्याहार एव ।
ननु यद्यपि शाब्दबोधं प्रति पदजन्यपदार्थोपस्थितेहेतुत्वं सिद्धं लक्षणाज्ञानाधीनोपस्थितेश्च शक्तिज्ञानाधीनोपस्थितिरूपत्वं न संभवतीति न शक्तिज्ञानाधीनोपस्थित्या संग्रहः संभवतीति पृथक् कारणत्वं प्राप्त.तथापि पदज्ञानजन्यपदार्थोपस्थितित्वघटितं यच्छाब्दबोधकारणतावच्छेदकं तेन रूपेण तीरत्वादिजातिमद्व्यक्तौ तीरादौ लाक्षणिकं यद् गङ्गादिपरं तजन्यतीरादिव्यक्तयुपस्थितेरसंग्रहे दोषो नास्त्येवेश्याशङ्कते- न चेति, दोषाभावे हेतुमाह- अध्याहृतेति, अध्याहृतपदार्थस्थापि प्रभाकरमते शाब्दबोधविषयत्वमस्त्येवेत्यऽध्याहृतपदार्थोपस्थितेर्यन रूपेण शाब्दबोधहेतुत्वं भवति लक्ष्यार्थोपस्थितेरपि तद्रूपाक्रान्ततयैव तेनैव रूपेण शाब्दबोधहेतुत्वमुपपद्यते तत्राध्याहृतपदार्थोपस्थितेहिं योग्यतादिज्ञानाधीनोपस्थितित्वेन रूपेण शाब्दबोधहेतुत्वं भवति यथा 'द्वारम्' इत्युक्ते द्वारपदार्थस्य पिधानेन सह योग्यतादिकमम्तीति तादृशयोग्यतादिज्ञानेनाऽन्याहार्यपिधानपदार्थस्योपस्थितिर्जायते इति तादृशोपस्थित्याऽध्याहृतपिधानस्य शाब्दबोधविषयत्वं भवति तथा लक्ष्यार्थविषयकबोधस्थलेपि घोषस्य तीरेण सह योग्यतादिकमस्त्येवेति तादृशयोग्यतादिज्ञानेन गङ्गापदात् तीरोपस्थितिर्जायते इति तादृशोपस्थित्या तीरस्य शाब्दबोधविषयत्वं भवतीति लक्ष्यार्थोपस्थितेः शक्तिपदज्ञानजन्यपदार्थोपस्थितित्वेन रूपेण शाब्दबोधाजनकत्वेपि दोषो नास्तीत्यर्थः । नन्वेवं सर्वलाक्षणिकपदस्थले सर्वार्थाध्याहारस्थले च शाब्दबोधः किं न स्यादित्याशङ्कयाह- शक्तपदस्येति, शक्तस्यैव पदस्य शाब्दबोधजनकत्वं स्वीक्रियते इति सर्वलाक्षिणकस्थले कस्यापि पदस्य