________________
प्राभाकरमतखण्डनम् . ] शक्तिवादः ।
(१९९) सर्मगृहीतवृत्तिकत्वनिवेशे पशुत्वादिधर्मागृहीतशक्तिकविशिष्टवाचकपश्वादिपदात् पशुत्वादिविशिष्टविषयकशाब्दबोधस्य गुरूणामनुमतस्याप्यनुपपत्तिः।
न च प्रकारीभूतधर्मभेदेन कार्यकारणभावभेदस्य यत्त्वतत्त्वाननुगमेनावश्यकखाजातिप्रकारकशाब्दबोधे एव जातिरूपधर्ममात्रगृहीतवृत्तिकपदज्ञानजन्यस्मरणस्य हेतुत्वमङ्गीकार्यमिति वाच्यम्, एवमपि जातिमल्लाक्षणिकपदज्ञानाजातिप्रकारकशाब्दबोधानुपपत्तेर्जागरूकत्वात्, लक्षणाज्ञानाधीनपदार्थोपस्थितेहेतुत्वान्तरकल्पने च गौरवात् । तस्थले तादृशधटपदज्ञानाद् गोत्वप्रकारकशाब्दबोधापत्ति स्ति, गोपदस्य च गोत्वे गृहीतवृत्तिकवात् तादृशगोपदज्ञानाद् गोत्वप्रकारकगोविशेष्यकशाब्दबोधस्यानुपपत्तिरपि नास्तीत्याशङ्कयाहतद्धर्मेति, एवं हि त्वन्मते पशुपदस्य पशुत्वधर्मे शक्तिर्नास्ति किं तु पशुत्वविशिष्टव्यक्तावेव विशिट्वाचकत्वस्वीकारात् तादृशपशुपदात पशुत्वविशिष्टस्य यः शाब्दबोधोऽनुमतः स न स्यात्- पशुपदस्य प्रकारीभूतपशुत्वधर्मे गृहीतवृत्तिकत्वाभावादित्यर्थः । तद्धर्मप्रकारेण धर्मिगृहीतवृत्तिकपदज्ञानजन्यतद्धर्मप्रकारकस्मरणस्य हेतुत्वे तु पशुपदस्य पशुत्वविशिष्टे गृहीतवृत्तिकत्वेन पशुत्वप्रकारेण पशुव्यक्तिगृहीतवृत्तिकत्वात् पशुत्वविशिष्टव्यक्तिविषयकशाब्दबोधस्यानुपपत्तिर्नास्ति । गुरूणाम्-प्राभाकराणाम् । लोमादिविशिष्टस्य पशुत्वेन पशुत्वं लोमादिकमेव तत्र पशुपदशक्तिस्वी. कारेप्यानन्त्यव्यभिचारदोषसंभवात् जातिशक्तिवादिभिरपि पशुत्वविशिष्टव्यक्तावेव पशुपदस्य शक्तिः स्वीक्रियते न तु पशुत्वे इत्यवधेयम् ।
ननु ' तद्धर्मप्रकारकशाब्दबोधे तद्धर्मप्रकारेण धर्मिगृहीतवृत्तिकपदज्ञानजन्यतद्धर्मप्रकारकस्मरणस्य हेतुत्वम् ' इत्येवं यत्तत्पदाभ्यामनुगमो न संभवत्येकतत्पदेन गोत्वस्यापरतत्पदेन घटत्वस्थापि ग्रहणसंभवादिति 'गोलप्रकारकशाब्दबोध प्रति गोत्वमात्रे गृहीतवृत्तिकपदज्ञानजन्यगोत्व. प्रकारकस्मरणस्य हेतुत्वम् । इत्येवं प्रकारीभूतगोत्वादिधर्मभेदेन कार्यकारणभावभेदस्यावश्यकरवा. जातिप्रकारकशाब्दबोधे एव जातिरूपधर्ममात्रगृहीतवृत्तिकपदज्ञानजन्यस्मरणस्य हेतुत्वमङ्गीकार्य यथा गवादिपदस्थले, पशुपदस्थले तु जातिप्रकारकशाब्दबोधो न भवति किं तु लोमादिद्व्यप्रकारक एवेति तादृशशाब्दबोधं प्रति धर्ममात्रगृहीतवृत्तिकपदज्ञानजन्यस्मरणस्य हेतुत्वमेव नास्तीति न पशुत्वधर्मागृहीतवृत्तिकपशुपदात् पशुव्यक्तिविषयकशाब्दबोधस्यानुपपत्तिरित्याशङ् क्याह- न चेति । परिहारहेतुमाह- एवमिति, एवमपि द्रव्यपदस्य सुवर्णे लक्षणास्तीति द्रव्यपदं सुवर्णत्वजातिमति लाक्षणिकमिति तादृशद्रव्यपदज्ञानात् सुवर्णस्वजातिप्रकारकशाब्दबोधो लक्षणया न स्यादेव- द्रव्यपदस्य सुवर्णत्वे गृहीतशक्तिकत्वाभावात् । यदि शक्यार्थविषयकशाब्दबोध प्रति जातो गृहीतशक्तिकपदज्ञानजन्योपस्थितेः कारणत्वमस्ति न तु लक्ष्यार्थविषयकशाब्दबोध प्रत्यपि लक्ष्यार्थविषयकशाब्दबोधं प्रति लक्षणाज्ञानाधीनोपस्थितेः कारणत्वस्वीकारादित्युच्यते ? तदा लक्ष्यार्थबोधं प्रति लक्षणाज्ञानाधीनोपस्थितेहेतुत्वान्तरकल्पनाद् गौरवं स्यादित्याह-लक्षणेति ।