________________
___ (२०३)
प्रभाकरमतम्.]
शक्तिवाद । गोत्वाद्यवच्छिन्नविषयतया समं परम्परया शक्तिविषयताया निरूप्यनिरूपकभावसत्वादितिवाच्यम्, साक्षानिरूपितत्वपरम्परानिरूपितत्वयोरनुगमकरूपाभावात् ।
यत्तु वृत्तिसंसर्गकपदप्रकारकज्ञानमेव शाब्दबोधोपयोगि. एवं च शक्तिसंसर्गतानिरूपकपदप्रकारतानिरूपिततद्धर्मावच्छिन्नविशेष्यताशालिज्ञानत्वेन तद्धर्मावच्छिन्नविशेष्यकशक्तिलक्षणाज्ञानयोरनुगमः संभवत्येव- शक्यसम्बन्धेनार्थाशे पदप्रकारकग्रहस्यापि तथात्वात्, संसर्गतावच्छेदकीयविषयतायामपि संसर्गतात्वसत्त्वादिति । तु व्यक्तौ शक्तिस्वीकारेण गङ्गापदस्य यत्र प्रवाहे शक्तिस्तेन प्रवाहेण तीरस्य साक्षात् संबन्धसत्त्वात् तीरविषयतायाः प्रवाहविषयताद्वारा गङ्गापदशक्तिविषयतया समं निरूप्यनिरूपकभावसंभवादितिभावः । गोत्याद्यवच्छिन्नविषयतया नाम लक्ष्यार्थविषयतया । परिहरति-- साक्षादिति । स्पष्टार्थं वाक्यम् । तथा च शक्तिलक्षणाज्ञानयोरनुगमासंभवात् तज्जन्योपस्थित्योः पृथक् पृथगेव कारणत्वं तार्किकमतेपि प्राप्तमिति प्रदर्शितगौरवं तदवस्थमेवेत्यर्थः __ यत्त्विति-- शक्तिसंसर्गकपदप्रकारकार्थविशेष्यकज्ञानं शाब्दबोधकारणमित्युच्यते तथा च तद्धविच्छिन्नविशेष्यकशक्तिज्ञानस्य तद्धर्मावच्छिन्नविशेष्यकलक्षणाज्ञानस्य च शक्तिसंसर्गतानिरू. पिका या पदनिष्ठा प्रकारता तादृशपदप्रकारतानिरूपता या घटत्वादिधर्मावच्छिन्ना विशेष्यता तादृशविशेष्यताशालिज्ञानत्वेन. रूपेणानुगमः संभवत्येवेति न तार्किकमते लक्षणाज्ञानाधीनोपस्थितेर्हेतुत्वान्तरकल्पनापत्तिर्येन गौरवं स्यादित्यर्थः, तत्र ' स्वनिष्ठशक्तिनिरूपकावसबन्धेन गङ्गापदविशिष्टः प्रवाहः ' इति शक्तिवानम् . अत्र स्वं गङ्गापदं तनिष्ठशक्तनिरूपकत्वं प्रवाहेऽस्त्येव, ' स्वनिष्ठशक्तिनिरूपकशक्यसंबन्धेन ( शक्यसंबन्धित्वेन संबन्धेन ) गङ्गापदविशिष्टं तीरम् ' इत्याकारकमविशेष्यकं लक्षणाज्ञान शाब्दबोधकारणमस्ति, स्वं गङ्गापदम् , एतादृशशक्तिलक्षणाज्ञानयोरुभयोरपि शक्तेः संसर्गतया पदस्य प्रकारतयाऽर्थस्य च विशेष्यतयाप्रवेशाच्छक्तिनिष्ठसंसर्गतानिरूपकपदप्रकारतानिरूपिततद्धर्मावच्छिन्नविशेष्यताशालित्वमस्त्येवेति तेन रूपेणानुगमः । शक्यसंबन्धेन स्वनिष्टशक्तिनिरूपकशक्यसंबन्धेनाऽांशे लक्ष्यार्थविषयकस्य पदप्रकारकस्य लक्षणाज्ञानस्यापि तथात्वात्--शक्तिज्ञानसमानत्वाद् नाम शक्तिसंसर्गतानिरूपकपदप्रकारता. निरूपिततद्धर्मावच्छिन्नविशेष्यताशालित्वादित्याह- शक्येति । ननु स्वनिष्ठशक्तिनिरूपकत्वादेः संसर्गस्वेन शक्तेः संसर्गतावच्छेदकत्वमेव संभवति न तु संसर्गत्वं त्वया च शक्तेः संसर्गत्वमेवोच्यते तत्कथमुपपद्यतेत्याशङ्कयाह- संसर्गतावच्छेदकीयेति, शक्ती सांसर्गिकविषयताया अभावेप्यत्र ससर्गतावच्छेदकीयविषयता त्वस्त्येव संसर्गतावच्छेदकीयविषयतायामपि संसर्गतात्वमस्त्येवेति शक्तेः. संसर्गघटकावेन संसर्गत्वमक्षतमेवेत्यर्थः ।