________________
भट्टमतखण्डनम्, ] शक्तिवादः ।
(१८९) न्ध्युपरक्तसंबन्धज्ञानाद् निर्विकल्पकस्मरणे बाधकाभावात् । निर्विकल्पकस्य संस्काराजनकत्वेपि विशिष्टज्ञानाहितविशिष्टगोचरसंस्काराद् विशेष्यांशानुद्रोपदशायां केवलविशेषणांशस्मरणे न विरोध इति वदन्ति ।।
बदसत्-गवादिपदात् स्वरूपतो गोत्वादिज्ञानेपि व्याप्यतावच्छेदकप्रकारेण. तद्ग्रहासंभवात् ततो व्यक्त्याक्षेपासंभवात् । न च शाब्दधीविषयेण परम्परासंबन्धेन गोत्वादिविशेषितकर्मत्वादिहेतुनाऽऽनयनादौ गवादिकर्मकत्वमनुमेयमिति वाच्यम्, विशिष्टसाध्यस्य प्रागप्रतीतेः।
नाम राजपुरुषदर्शनजन्या या राजस्मृतिः सा सप्रकारैव यद्यपि भवति- राजत्वप्रकारकराजविशेष्यकत्वात्, एवम् 'हस्ती हस्तिपकसंबन्धी' इत्यत्र हस्तिपकदर्शनजन्याया हस्तिस्मृतेः सप्रकारकत्वम्, तथापि निर्विशेषणकं यद् गोत्वादिरूपं संबन्धि तदुपरतो यः शक्तिरूपसंबन्धस्तज्ज्ञाना नाम स्वरूपतो गोत्वादिशक्तिज्ञानाद् गोत्वादेनिर्विकल्पकस्मरणे बाधक नास्त्येव सप्रकारकशक्तिज्ञानादेव सप्रकारकस्मरणसंभवादित्यर्थः, तदुक्तम् "अस्तु वा पदादपि निर्विकल्पकम् " इति । नन्वेवं पदानिर्विकल्पकस्मरणोपगमे कालान्तरे पदाद् गोत्वादेः स्मरण न स्याद् निर्विकल्पकस्य संस्कारजनकत्वासंभवात् संस्कार विना स्मरणासंभवाचेत्याशङ्कयाहनिर्विकल्पकस्येति, निर्विकल्पकस्य संस्काराजनकत्वेपि विशिष्टविषयकज्ञानेनाऽऽहितः-उत्पादितो यो विशिष्टविषयकसंस्कारस्तस्माद विशेष्यांशानुद्बोधदशायाँ गोत्वादिरूपकेवल विशेषणांशस्मरणे बाधकामावादित्यन्वयः, तथा च व्यवहारकाले जातिप्रकारकव्यक्तिविशेष्यकबोधेन व्यक्तावानन्यव्यभिचाराभ्यां जातौ शक्तिप्रहे जातेपि तादृशविशिष्टविषयकबोधेन जातिप्रकारकव्यक्तिविशेव्यको यः संस्कारो जायते तादृशसंस्कारात् केवलजातिविषयकं स्मरणं जायते- तदुद्बोधकस्य. जातिशक्तिज्ञानसहकृतपदज्ञानस्य सत्त्वात्, व्यक्तिविषयकसंस्कारांशोद्बोधकाभावाद् व्यक्तिस्मरणं च पदान्न जायते इतिसारः ।" इति वदन्ति " इत्यस्य पूर्वोक्तन "भट्टाः" इत्यनेनान्वयः ।
भट्टमतं परिहरति- तदसदित्यादिना, उक्तरीत्या गवादिपदात् स्वरूपतो गोत्वादिज्ञाने जातेपि व्याप्यतावच्छेदकप्रकारेण नाम जात्या व्यक्त्यनुमाने व्याप्या या जातिस्तस्या व्याय्यतावच्छेदकं यद् गोत्वत्वादि तत्प्रकारेण गोत्वत्वादिरूपेण ज्ञानासंभवात् ततः-स्वरूपतो भासमानगोत्वादितो व्यक्तेराक्षेपस्थानुमानस्यासंभव एव, धमत्वेन ज्ञायमानधूमादेव वह्वयनुमानस्वीकारादित्यर्थः । ननु 'गामानय' इत्यत्र शाब्दबोधविषयेण परम्परासंबन्धेन नाम स्वाश्रयनिरूपितत्वसंबन्धेन गोत्वयिशिष्टं कर्मत्वम् गोलकर्मकत्वमानयनेऽस्त्येव तेन हेतुनाऽऽनयने गवादिकर्मकत्वमनुमीयते गोकर्मका वं विना गोत्वकर्मकत्वस्याऽसम्भवात गोवकर्मकत्वस्य च व्याप्यतावच्छेदकरूपेण गोत्वकर्मकत्वत्वरूबेण प्रहणसम्भवान्नोक्तदोषावसर इत्येतादृशानुमानेन व्यक्तिमानं सम्भवतीति न व्यक्तेर्वाच्यत्वापेक्षेत्याशङ्क्याह-न चेति । आनयनं गोकर्मकमुक्तसम्बन्धेन गोत्वविशिष्टकर्मकत्वादिति प्रयोगः। अत्र स्वं गोत्वं तदाश्रयो व्यक्तिस्तन्निरूपितत्वमानयननिष्ठकर्मकत्वेस्तीत्यनेन सम्बन्धेन तादशकर्मकत्वं गोत्वविशिष्टं जातम् । परिहारमाह- विशिष्टेति, सपक्षे प्रतीतस्य साध्यस्य केन