________________
सादर्श:--
[विशेषकाण्डे - एवम् 'गौरानीयताम्' इत्यादौ स्वरूपत उपस्थितस्य गोत्वादेरेव विशेष्यतया भानोपगमे निर्मितावच्छेदककशान्दधीस्वीकारापत्तिः. तादृशबुद्धेराक्षेपकताबच्छेदकावच्छिन्नाऽविषयतया व्यक्त्याक्षेपकताऽनुपयोगितापत्तिश्चेति व्यक्तेः शान्दबोधे विशेष्यादिविधया भानमावश्यकमित्यवधेयम् ।
एवं गवादावानयनकर्मत्वं सामानाधिकरण्यसम्बन्धेनाऽऽनयनकर्मत्वविशेषितेन गोत्वादिहेतुनाऽनुमेयम्. तच्च न सम्भवति- तादृशगोत्वादेरानयनकर्मत्वादिशून्यगवादिसाधारण्येन व्यभिचारात् । सामानाधिकरण्यसम्बन्धेनाऽऽनयनकर्मत्वादिविशिष्टस्य विशेषणाव्यभिचारित्वेपि साध्यस्य पक्षे सन्देहदशायां साध्यविशिष्टस्य हेतोः पक्षे दुनिश्चयत्वात्. अतो व्यक्तः शान्दबोधे विशेष्यादिविधया भानमावश्यकमित्यपि बोध्यम् । चिद्धेतुना पक्षे सिद्धिर्भवति. गोकर्मकत्वं च विशिष्टसाध्यमेतदनुमानात् पूर्व प्रतीतमेव नास्तीति कथं तस्यैतदनुमानेन सिद्धिः स्यादित्यर्थः । ___ व्यक्तेरवाच्यत्वे दोषान्तरमाह-एवमिति । 'गौरानीयताम्' इत्यत्र गोपदस्य प्रथमान्तत्वेन सद्वाच्यं यद्गोत्वं तद्विशेश्यक एव शाब्दबोधः स्मदोत्वं च स्वरूपत एच शक्यं स्वरूपत एवं चोपतिष्टतीति स्वरूपत एव तद्विषयकशाब्दबोधः स्मादिति धर्मितावच्छेदकस्य गोवत्वस्य गोत्वविशेषणतया भानाभावान्निर्धर्मितावच्छेदककशाब्दबोधस्य गोत्वविषयकस्य स्वीकारापत्तिदोषः-निमितावच्छेदककशाब्दबोधस्य सर्वासमतत्वादित्यर्थः। निर्धर्मितावच्छेदककशाब्दबोधस्वी. कारेपि दोषमाह- तादृशेति. जाती व्यक्त्याक्षेपकतास्ति तादशाक्षेपकतावच्छेदकं गोत्वत्वं तदवच्छिन्नं यद्वोत्वं तदऽविषयकतया तादृशबुद्धेः-गोत्वविषयकस्य निर्मितावच्छेदककशाब्दबोधस्य जातेय॑क्त्याक्षेपकतायामुपयोगो न सम्भवतीति वैयर्थ्यमेव तथा च शाब्दबोधे व्यक्तेर्जातिविशेध्यतया भानमावश्यकमेव तच्च वाच्यत्वं विना न सम्भवतीति व्यक्तरपि वाच्यत्वमावश्यकमित्यर्थः । ___ व्यक्तरवाच्यत्वे द्रोपान्तरमाह-श्वमिति, 'गौरानयनकर्मत्वविशिष्टा गोत्वविशिष्टत्वात्' इत्येवं यदि सामानाधिकरण्यसंबन्धेनाऽऽनयनकर्मत्वविशिष्टगोत्येन गवादावाऽऽनयनकर्मत्वमनुमीयते तेन चानुमानेन जात्या व्यक्त्याक्षेप इत्युच्यते तदपि न सम्भवतीत्यर्थः । सम्भवाभावे हेतुमाह-- तादृशेति, हेतुभूतगोत्वस्यानयनकर्मल्वाभाववत्यपि गवादी सत्त्वेन व्यभिचारित्वं प्राप्त व्यभिचारिहेतुना चानुमानं न सम्भवतीत्यर्थः । सामानाधिकरण्यसम्बन्धेनाऽऽनयनकर्मत्वविशिष्टं च गोत्वं यद्यपि विशेषणस्यः-साध्यस्याऽऽनयनकर्मत्यस्य व्यभिचारि नास्ति तथापि सन्दिग्धसाध्यवानेव पक्षो भवतीति पक्षे गवादौ साध्यस्यानयनकर्मत्वस्य सन्देहदशायांमनुमानदशायां साध्यविशिष्टस्य सामानाधिकरण्यसंबन्धेनाऽऽनयनकर्मत्वविशिष्टस्य हेतोर्गोवस्य पक्षे गवादौ निश्चयासम्भवात् तेन कथं गवादावानयनकर्मत्वमनुमीयेत येन जात्यात्र व्यक्त्याक्षेपः स्यादित्याह- सामानाधिकरण्येति । उपसंहरति-अत इति । यतो जात्योक्तरीत्या व्यक्त्याक्षो न सम्भवति अत इत्यर्थः ।