________________
(१८८)
सादर्श:
[ विशेषकाण्डेअथ गवादिपदाद् व्यक्तरस्मरणे गोत्वादिस्मरणमेव कथमुपपद्यते ? गोत्व.. प्रकारकस्मरणे व्यक्तेविशेष्यतया भाननियमात, तद्विशेष्यकस्मरणे च व्यक्तिधटितगोत्वत्वादेः प्रकारतया भाननियमात् । व्यत्ययटितप्रकारस्य संभवेपि स्वरूपत एव जातेः शक्यतया धर्मान्तरविशेष्यतया तत्स्मरणासंभवात् । धर्मान्तरप्रकारेण स्मरणेपि गोत्वाद्यंशे निष्प्रकारकशाब्दज्ञानासंभवेन तादृशस्मृतेरनुपयोगित्वादितिचेत ? , - ‘न-पदादाऽऽलोचनरूपस्यैव स्मरणस्योपगमात् । किंचिद्धर्मावच्छिन्नसंबन्ध्युपरक्तसंबन्धज्ञानाधीनतत्संबन्धिस्मृतेः समकारकत्वनियमपि निर्विशेषणकसंब
ष्ठभेदप्रतियोगितानवच्छेदकधर्मत्वकिंचिदाश्रितत्वादिरूपेण गोत्वादेरुपस्थितिः सर्वत्र न भवतीति नैतादृशानुमानेन व्यक्तिमानं संमतमित्यर्थः । .... ..
शङ्कते--अथेति । उक्त हेतुमाह- गोत्वप्रकारकेति, पदाद् व्यक्तेविंशष्यतया भाने जाते एवं व्यक्तिप्रकारतया पदाद् गोत्यादेः स्मरणसंभवादित्यर्थः । ननु गोत्वादेः प्रकारतया स्मरणे तद्विशेष्यतया व्यक्तिमाननियमपि गोत्वादेविशेष्यतया स्मरणे तु तद्विशेष्यतया व्यक्तिमानापेक्षा नास्तीत्याशङ्कयाह-- तद्विशेष्यकेति, तद्विशेष्यकस्मरणे-गोत्वादिविशेष्यकस्मरणे च विशेष्यतायाःसाव. च्छिन्नत्वनियमेन गोत्वादिप्रकारतया गोत्वत्वादेरपि मानं स्थादेव गोत्वत्वस्य च गवेतरावृत्तित्वे सति सकलगोवृत्तित्वरूपत्वाद् व्यक्तियटितत्वमिति गोस्वत्वघटकतया व्यक्तेर्भानं स्यादेवेत्यर्थः । ननु गोत्यादिविशेष्यकस्मरणे जातित्वप्रमेयत्वादेरपि प्रकारतया भानं संभवति प्रमेयत्वादिकं चन व्यक्तिघटितमिति न व्यक्तिमानापत्तिरित्याशङ्कयाहा व्यक्तयघटितेति, व्यक्तयघटितस्य जातित्वप्रमेयत्वादेः प्रकारस्य संभवेपि स्वरूपत एव जातेः शक्यत्वमस्ति न तु धर्मान्तरावच्छिन्नत्वेन रूपेणेति प्रमेयत्वादिधर्मान्तर विशेष्यतया तत्स्मरणम् गोत्वादिस्मरणं न संभवति, तत्प्रकारकस्मरणं प्रति तत्प्रकारकशक्तिज्ञानस्य कारणत्वादित्यर्थः । स्वरूपतो गोत्यादिशक्तिज्ञानस्य कथंचित् किंचित्पा कारेण स्मरणप्रयोजकत्वकल्पनेप्याह- धर्मान्तरप्रकारेणेति, स्वरूपत्तो गोत्यादिशक्तिज्ञानेन प्रमेय त्वादिधर्मान्तरप्रकारकगोत्वादिस्मरणे जातेपि तादृशस्मरणेन प्रमेयत्वादिधर्मप्रकारक एव गोत्वादिविषयकशाब्दबोधः संभवति न तु निष्प्रकारकोपि. त्वया च गोत्वादिविषयकशाब्दबोधो निष्प्रकारक एवापेक्ष्यते इति तादृशस्मृते प्रमेयत्वादिप्रकारकगोल्लादिस्मृतेरनुपयोग एव- तस्या निष्प्रकारकगोत्वादिशाब्दबोधाजनकत्वादित्यर्थः ।
परिहरति-- नेति,आलोचनरूपस्य निर्विकल्पकस्य, निर्विशेष्यकनिष्प्रकारकस्येतियावत् तथा च ‘पदाजातिस्मरणे म व्यक्तेविशेष्यतया गोत्वत्वादेः प्रकारतया वा भानापत्तिरित्यर्थः । निर्विकल्पकस्मरणे उपपत्तिमाह-- किंचिदिति,यथा किंचिद्धर्मावच्छिन्नः राजत्वावच्छिन्नो यः संबन्धी राजपुरुषसंबन्धी राजा तदुपरक्तः तद्घटितो यः स्वस्वामिभावसंबन्धस्तादृशसंबन्धस्य ज्ञानेन जायमाना