________________
भट्टमतम्.] शक्तिवादः।
(१८७) रण्यादाक्षेपासम्भवः-तादात्म्यसंबन्धेन जातेराधेयतासंबन्धन व्यत्तयाक्षेपकतायामविरोधात् ।
वस्तुतस्तु गामानय' इत्यादौ स्वाश्रयवृत्तित्वादिरूपपरम्परासंबन्धेनाऽऽनयनकर्मत्वादौ गोत्वादिजातेरन्वयः शाब्दस्तेन सम्बन्धेन गोत्वादिमत्त्वस्य चाऽधे. यतासंबन्धेन गवादिव्याप्यत्वादाऽऽधेयतासंबन्धेन गवादिमत्वविरहेऽनुपपद्यमानत्वाच्चाऽऽनयनकर्मत्वादावाऽधेयतासंबन्धन गवादिव्यक्तिमकारिका धीराक्षेपात्। पूर्वसंसर्गघटकतया शाब्दबोधे व्यक्तिभानेपि कर्मत्वांशे गोत्वाद्यवच्छिन्नव्यक्तिप्रकारकभानानुरोधेनाऽऽक्षेपादरः।
गोत्वं गवाश्रितं गोनिष्ठभेदप्रतियोगितानवच्छेदकधर्मत्वात् किंचिदाश्रितं वा जातित्वाद् इत्यनुमानतो व्यक्तिमानं तु न सार्वत्रिकम्- तादृशहेतूपस्थितेरसार्वत्रिकत्वात्. गवादिपदात् ताशरूपेण गोत्वादेरनुपस्थिते । जातेराधेयतासंबन्धेन व्यक्त्याक्षेपे विरोधो नास्तीत्यन्वयः, जातिराधेयतासंबन्धेन व्यक्तिवती तादात्म्यसंबन्धेन जातिमत्त्वादित्यर्थः ।
व्यक्त्याक्षेपस्य प्रकारान्तरमाह- वस्तुतस्विति । स्वेति- स्खं गोत्वादिजातिस्तदाश्रयोष्यक्तिस्तत्र वृत्तित्वमानयनकर्मस्वादावस्त्येवेति 'गामानय' इत्यादौ स्वाश्रयवृत्तित्वादिरूपपरम्परासंबन्धेनाऽऽनयनकर्मत्वादौ गोत्वादिजातेरन्वयः शाब्दः, यत्र चानयनकर्मत्वादौ स्वाश्रयवृत्तित्वादिसंबन्धेन गोत्वादिकं भवति तत्राधेयतासंबन्धेन गवादिव्यक्तिरपि भवतीति स्वाश्रयवृत्तित्वादिसंबन्धेन गोत्वादिमत्त्वमाधेयतासंबन्धन गवादिव्यक्तिव्याप्यमितिलब्धं तथाऽऽधेयतासंबन्धन यत्र गवादि. व्यक्तिर्न भवति तत्र स्वाश्रयवृत्तित्वादिरूपसंवन्धेन गोत्वादिमत्त्वस्याऽनुपपत्त्याऽऽनयनकर्मत्वादौ स्वाश्रयवृत्तित्वादिसंबन्धेन गोत्वादिमत्त्वेनाधेयतासंबन्धेन व्यक्तेराक्षेपो भवतीत्यर्थः । ननु गोवादेरानयनकर्मत्वादौ स्वाश्रयवृत्तित्वादिसम्बन्धेनान्वये कृते तादृशसम्बन्धघटकतया 'गामानय' इत्यादिस्थले व्यक्तीनं भवत्येव व्यक्तरेव स्वाश्रयपदार्थत्वादिति किमर्थं जात्या व्यक्तेराक्षेपः क्रियते इत्याशङ्कयाह- पूर्वेति, यद्यपि पूर्वसंसर्गघटकतया स्वाश्रयेत्यायुक्तसंसर्गघटकतया व्यक्तेर्भानं भवति तथापि 'गामानय' इत्यत्र यत् कर्मत्वविशेष्यकं गोरवाद्यवच्छिन्नव्यक्तिप्रकारकं भानं भवति तत्र कर्मत्वप्रकारतया व्यक्ते नाथ जात्या व्यक्त्याक्षेपः क्रियते इत्यर्थः । न च संसर्गघटकतया. भासमानव्यक्तेः कर्मत्वे प्रकारतयाऽन्वयः किं न स्यादिति वाच्यम्, स्वाश्रयवृत्तित्वस्य जातिविशेषणत्वेन तद्घटकव्यक्तेरपि जातिविशेषणत्वात् कर्मत्वे विशेषणत्वासंभवात् 'एकत्र विशेषणस्याऽन्यत्र विशेषणत्वासंभवात्' इति न्यायात् ।
ननु ' गोत्वं गवाश्रितं गोनिष्ठभेदप्रतियोगितानवच्छेदकधर्मत्वात् गोनिष्ठभेदानुयोगितात्रच्छेदकधर्मत्वात् ' ' गोत्वं किंचिदाश्रितं जातित्वात्' इत्याद्यनुमानेनैव जात्याऽऽश्रयव्यक्तेर्भानं किं. न स्यादित्याशङ्कयाह- गोत्वमिति । परिहारहेतुमाह-- तादृशेति, गवादिपदात् तादृशरूपेण-गोनि