________________
सर्वपदम्, ]
शक्तिवादः । न चैवं घटत्वादिसामानाधिकरण्यमात्रेण विधेयान्वयतात्पर्येणं सर्वे घटा नीलाः ' इत्यादिप्रयोगापत्ति:- सर्वपदार्थविशेषिते उद्देश्यतावच्छेदकावच्छेदेनैव विधेयान्वय इतिनियमात् । 'सर्व प्रमेयम्' इत्यादौ प्रमेयत्वादिविधेयके उद्देश्यवाचकवस्त्वादिपदमध्याहृत्यैर प्रतीतिः, अन्यथोद्देश्यतावच्छेदकीभूतव्याप्यधर्मानुपस्थित्या तव्यापकत्वार्थकत्वेप्यनुपपत्तिरिति ।
तदपि न. युज्यते- गगनादावपि द्वित्वाद्यवच्छिन्नतभेदसत्त्वेन सर्वपदस्याऽनेकार्थत्वमुपगम्यापि — सर्व गगनम् ' इत्यादिप्रयोगस्य दुर्वारत्वात् । तत्तदुद्देश्यता
ननु याद्देश्यतावच्छेदकसमानाधिकरणभेदप्रतियोगित्वमेव सर्वपदार्थस्तदोद्देश्यतावच्छेदकं यद् घटत्यादि तत्सामानाधिकरण्येन नाम कतिपयघटेषु नीलादिलक्षणविधेयम्यान्वयतात्पर्येणापि * सर्वे घटा नीलाः । इत्येवं प्रयोगः स्यादेव-घटत्वसमानाधिकरणो यस्तव्यक्तित्वावच्छिन्नप्रतियोगिताको भेदस्तादृशभेदप्रतियोगित्वस्य कतिपयवटेष्यपि सत्त्वादित्याशङ्कयाह- न चैवमिति । परिहारहेतुमाह-- सर्वपदार्थेति, यत्रोद्देश्यं सर्वपदार्थविशेषितं भवति तादृशस्थले उद्देश्यतावच्छेदकाबच्छेदेनैव विधेयस्यान्वयो भवति नतूदेश्यतावच्छेदकसामानाधिकरण्येन तथा च यावद्घटत्वाव. छिने नीलत्वस्याभायत् ' सर्वे घटा नीलाः ' इतिप्रयोगापत्तिर्नास्तीत्यर्थः । ननु यत्रोद्देश्यवाचकपदमेव न स्याद् यथा 'सर्व प्रमेयम्. ' इत्यादौ तत्रोद्देश्यवाचकपदाभावेनोद्देश्यतावच्छेदकानुपस्थित्या उद्देश्यतावच्छेदकसमानाधिकरणभेदप्रतियोगित्वस्य सर्वपदार्थस्य कथं प्रतीतिः स्यादिल्याशङ्कयाह- सर्वग्निति, ' सर्व प्रमेयम् ' इत्यादिस्यले उद्देश्यवाचकस्य वस्त्वादिपदस्याऽध्याहारः कर्तव्यस्तादृशाध्याहृतवस्त्वादिपदेनोद्देश्यतावच्छेदकधर्मस्य वस्तुत्वादेरुपस्थितिः संभवत्येवेति तादृशोद्देश्यतावच्छेदकसमानाधिकरणभेदपतियोगित्वरूपसर्वपदार्थस्य न प्रतीत्यनुपपत्तिरित्यर्थः । तादृशस्थले उद्देश्यवाचकपदाध्याहारस्याऽनङ्गीकारे बाधकमाह- अन्यथेति, सर्वपदस्य पूर्वोक्तरीत्या व्यापकत्वार्थकत्वपक्षेपि 'सर्व प्रमेयम् ' इत्यादावुद्देश्यवाचकवस्त्वादिपदाध्याहार आवश्यक एवं भन्यथा व्यापकत्वं व्याप्यनिरूपितमेव भवतीत्युद्देश्यतावच्छेदकीभूतो यो व्याप्यधर्म उद्देश्यवाचकपदाभावेन तदनुपस्थित्या विधेये तादृशव्याप्यधर्मनिरूपितव्यापकत्वस्यारि . सर्वपदार्थस्य भानं न स्यादित्यर्थः । तद्व्यापकत्वार्थकत्वेपि सर्वपदस्य व्याप्यधर्मनिरूपितव्यापकत्वार्थकत्वेभ्यनुपपत्तिरेव स्यादित्यन्वयः । ... यत्त्वित्यादिना प्रतिपादितमनेकत्वस्य सर्वपदार्थत्वं परिहरति- तदपि नेति, उद्देश्यतावच्छेदफसमानाधिकरणभेदप्रतियोगित्वरूपानेकत्वस्यापि सर्वपदार्थत्वे ' सर्व गगनं शब्दवत् ' इतिप्रयोगः स्यादेव- गगने तव्यक्तित्वावच्छिन्नप्रतियोगिताकभेदस्यासंभवेपि द्वित्वावच्छिन्नप्रतियोगिताकस्य घटगगनोभयभेदस्य संभवेन तादृशभेदप्रतियोगित्वस्य गगनैपि सत्त्वात्. सर्वपदार्थान्तः प्रविष्टोद्देश्यतावच्छेदकसमानाधिकरणभेदपदेन उद्देश्यतावच्छेदकसमानाधिकरणद्वित्वावच्छिन्नप्रतियोगिताकभेदस्यापि ग्रहीतुं शक्यत्त्वादित्यर्थः । ननूद्देश्यतावच्छेदकसमानाधिकरणभेदप्रतियोगि