________________
( १३०)
सादर्श:
[विशेषकाण्डे'सर्वे घटा वर्तन्ते' इत्यादौ क्रियारूपविधेये व्यापकस्याऽभेदान्वये सर्वपदस्य नपुंसकत्वापत्तेः, व्यापकताया भेदान्वयोपगमे नामार्थधात्वर्थयोर्भेदान्वयविरहनियमभङ्गापत्तेः। __ यत्त्वशेषत्वं न सर्वपदार्थः- उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयोपगमादेव तल्लाभोपपत्तेः, किं त्वनेकत्वमेव. अनेकत्वं चोद्देश्यतावच्छेदकसमानाधिकरणभेदप्रतियोगित्वम्, अत एव 'सबै गगनं शब्दवत्' इत्यादयो न प्रयोगाः । एवं च 'सर्वे घटाः' इत्यादौ 'घटनिष्ठान्योन्याभावप्रतियोग्यऽभिन्ना घटाः' इत्वयमर्थः प्रतीयते ।
दोषान्तरं प्रदर्शति-- सर्वे इति, 'सर्वे घटा वर्तन्ते' इत्यत्र घटत्वावच्छिन्नमुद्दिश्य वर्तनक्रिया विधीयते वर्तमानत्वस्य विधेयत्वेपि पारिशेष्याद् वर्तनक्रियाया एव विधेयत्वं स्यात् तादशक्रियारूपे विधेये सर्वपदार्थस्योक्तव्यापकस्याभेदान्वये क्रियाविशेषणत्वापत्त्या "क्रियाविशेषणानामेकत्वं नपुंसकत्वं च” इत्यनुशासनात सर्वपदस्थात्र नपुंसकत्वं स्यात्, पूर्वोत्तरीत्या याद्देश्यतावच्छेदकव्यापकत्वं सर्वपदार्थस्तदा तस्य क्रियारूपविधेये आश्रयतासंबन्धेन भेदान्वय एव स्यात् 'घटत्व. व्यापकताश्रयवर्तनक्रियाविशिष्टा घटाः' इति, नामार्थधात्वर्थयोरपि साक्षाद् मेदेनान्वयोऽव्युत्पन्न एवेति भेदान्वयविरहनियमस्य भङ्गः स्यादित्यर्थः ।
परिहाराय मतान्तरमुपस्थापयति- यत्त्विति । 'सर्वे घटा रूपवन्तः' इत्यादावऽशेषघटेषु रूपप्रतिपादनार्थमेवाशेषत्वस्य सर्वपदार्थत्वमुच्यते तत्राशेषघटेषु रूपप्रतीतिस्तूद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयस्वीकारादेव लभ्यते. अत्रोद्देश्यतावच्छेदकं घटत्वं तदवच्छेदेनैव रूपान्वयः स्यादित्यर्थादेवाऽशेषघटेषु रूपप्रतिपत्तिर्जातेति नाऽशेषत्वं सर्वपदार्थो- येनोक्तदोषाणामापत्तिः स्यात् किं त्वनेकत्वमेव सर्वपदार्थ इत्यर्थः । अनेकत्वं परिष्करोति- अनेकत्वं चेति, उद्देश्यतावच्छेदकं यद् घटत्वादिकं तत्समानाधिकरणो यो भेदस्तादशभेदप्रतियोगित्वमेवानेकत्वम्, एतादृशानेकत्वस्य सर्वपदार्थत्वे 'सर्वे घटाः' इत्यस्य शाब्दबोधस्वरूपमाह- एवं चेति, घटनिष्ठो योऽन्यो. न्याभावः तद्व्यक्तित्वावच्छिन्नप्रतियोगिताको भेदः नाम घटव्यत्यन्तरप्रतियोगिको भेदस्तादृशभेदप्रतियोगित्वं चालनीन्यायेन सकलघटेषु संभवत्येवेति तादृशभेदप्रतियोग्यऽभिन्ना घटा इत्ययमर्थः 'सर्वे घटाः' इत्यत्र प्रतीयते । भनेकत्वस्य सर्वपदार्थत्वस्वीकारस्य फलमाह- अत एवेति, यद्यशेषत्वं सर्वपदार्थः स्यात्तदाऽशेषगगने शब्दाभिप्रायेण 'सर्व गगनं शब्दवत्' इति प्रयोगः स्यादेव न चैवं प्रयोगो भवति, उक्तरूपानेकत्वस्य सर्वपदार्थत्वे तुः गगनव्यक्तेरेकत्वाद् गगने गगनभेदो न संभवतीति न गगने गगनप्रतियोगिकभेदप्रतियोगित्वमिति 'सर्व गगनम्' इत्यादि प्रयोगापत्तिनास्तीत्यर्थः । अत्रोदेश्यतावच्छेदकसमानाधिकरणभेदपदेन तद्व्यक्तित्वावच्छिन्नप्रतियोगिताक एव भेदो ग्राह्यः अन्यथा घटादौ यो पटादिभेदस्तत्प्रतियोगित्वं पटादाधेति घटत्वावच्छिन्ने तादृशभेदप्रतियोगित्वरूपसर्वपदार्थस्यान्वयो न स्यादिति ।